________________ द्वितीयः सर्गः। अक्लेशकेशवः। उत्तरगीत श्लोकेनावतारयति / विहरतीत्यादि / विहरति वने राधा साधारणप्रणये हरौ विगलितनिजोत्कर्षादीावशेन गतान्यतः। कचिदपि लताकुब्जे गुज्जन्मधुव्रतमण्डली मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् // 1 // सा राधा रहः एकान्ते सखी प्रति उवाच / किंभूता / लीना / न केवलं लीना / दीना दुःखिता / कुत्र लीना / क्वचिदपि कस्मिंश्चित् स्थाने वर्तमाने लताकुञ्ज / लताभिर्विहितं कुजं गत्वा तस्मिन् / किम्भूते / गुञ्जन्मधुवतमण्डलीमुखरशिखरे / गुञ्जतां मधुव्रतानां भ्रमराणां मण्डली समूहः तया मुखरं ब्दयुशक्तं शिखरं यस्य तत्तथा तस्मिन् / किंभूता गता। क्व / अन्यतः / केन ईर्ष्यावशेन / परोत्कर्षासहनमीा / तस्या वंशः तेन / कस्मात् / विगलितनिजोत्कर्षात् / विगलितो विभ्रष्टः स चासौ निजः स्वकीयः उत्कर्षश्चेति सौभाग्यं व। तस्मात् / कस्मिन् सति / हरौ कृष्णे अन्याभिः सह वने विहरति क्रीडति सति / किंभूते राधासाधारण प्रणये / राधायां साधारण इत्यन्यविषयः प्रणयः प्रीतिर्यस्य स तथा / किमुवाचे त्याकाङ्क्षायां तमाह / संचरेत्यादि / 5 गुर्जरीरागे यतिताले। संचरदधरसुधामधुरध्वनिमुखरितमोहनवंशं चलितगश्चलचञ्चलमौलिकपोलविलोलवतंसम् / 1) B drops दुःखिता कुत्र लीना / 2) P °प्रिये 3) P राधायां साधारणऽन्यः प्रणयप्रीतिर्यस्य स तथा / A राधायां साधार इत्यन्यविषयः प्रीतिर्यस्य स तथा / B राधायाः साधारण अतिशय प्रीतिर्यस्य स तथा। 4) B °त्याशङ्कयाह. 5) B गुर्जरीरागेण गीयते / रूपकताले / अत्रापि प्रोषितप्रेयसी नाय(यि)का /