________________ 20] सटिप्पणकम् [सनः 1 प्रसनम् / किर्तरि षष्ठी / तेन क्लेशो यथा तथा। तस्मादिव / कया अनुसरति / प्रालेयप्लवनेच्छया प्रालेयं हिमं तत्र प्लवनं अवगाहः तत्रेच्छा तया। तथा पिकानां कोकिलानां गिरो वाचः उन्मीलन्ति प्रचरन्ति / किंरूपाः / कुहूः कुहूरिति / किंभूताः कलोत्तालाः / कला मधुरा अस्फुटाश्च ताः उत्तालाश्च उच्चाः एताः उत्ताना' इति पाठे अयमेवार्थः। कस्मात् / हर्षोदयात् / हर्षस्य आनन्दस्य / उदयः उद्भवः तस्मात् / किं कृत्वा [आलोक्य ] अवलोक्य। कानि / रसालमौलिमुकुलानि कुसुमकुड्मलानि तानि / अथवा किञ्चित् स्निग्धानि च तानि रसालमौलिमुकुलानि च तानि / इदानी समयकथोपक्रमं परिहाय गायतां शृण्वतां चाशिषमाहरासोल्लासभरेण विभ्रमभृतामाभीरवामझुवा मभ्यण परिरभ्य निर्भरमुरः प्रेमान्धया राधया / साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति ___ व्याजादुत्कटचुम्बितः स्मितमनोहारी हरिः पातु वः // 3 // पातु रक्षतु / कः / हरिः / रोगशोकसन्तापादिकं हरतीति हरिः अर्थाअक्तजनस्य / कान् / वः युष्मान् / कथम्भूतो हरिः। उद्भटचुम्बितः उद्भटः सोत्कटं प्रकटं यथा स्यात्तथा चुम्बितः।10आत्ममुखेन कृष्णमुख(ख) संयोगि(गी)कृतमित्यर्थः / कया राधया / कथम्भूतया / प्रेमान्धया। प्रेम्णा अन्धा सा तया कृष्णस्यातिप्रीत्या / चक्षुःप्रयोजनाभावादासन्नसखीजनादिकं नावलोकयतीत्यर्थः / कस्मात् / गीतश्रुतिव्याजात् / 11गीतस्य सम्पूर्णभरतोक्तगुणसहितस्य श्रुतिः श्रवणम् / तस्याः व्याजः छलः तस्मात् अथवा गीतश्रुतिव्याजाद्वा गानप्रशंसा. व्याजेन वा / धन्योऽसि भद्रं गायसीति किं कृत्वा / परिरभ्य आलिङ्गयः(ङ्गय)। किम् / उरो वक्षस्थलम् / 12'उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनो'. रित्यमरः / कथं यथा स्यात् / निर्भरं गाढं यथा स्यात् / कस्मिन् / अभ्यर्ण निकटे / न केवलं परिरभ्य व्याहृत्य उक्त्वा च / कथम् / इति / इतीतिकथम् / भो कृष्ण, साधु शोभनं यथा भवति तथा त्वद्वदनं मुखं सुधामयं अमृतमय'मिति / 13वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखमित्यमरः / पुनः कथम्भूतो हरिः। स्मितमनोहारी / स्मितेन [ ईषद् हासेन मनो हरतीति ] तस्माच्चुम्बनकुशलमाकलय्य ईषद् हास्येन मनोहरणशील इत्यर्थः / ___ इति श्रीगीतगोविन्दटीकायां सामोददामोदरो नाम प्रथमः सर्गः / 1) B drops कर्तरि षष्ठी / 2) P मिति / 3) B drops this sentence. 4) B adds चेति / but drops from कुसुम° to मुकुलानि च तानि / 5) B परिहाय तां / 6) P gives the प्रतीक [ रासोल्लाप(? सभ )रेत्यादि ] only.17) A °दुत्कटचुम्बितः स्मि / 8) B drops the line रोग... जनस्य / 9) A, B उत्कट / 10) B drops the sentece आत्म...मित्यर्थः। 11) B drops the line गीतस्य...०...व्याजाद्वा / 12)B drops the line उरो...इत्यमरः। 13)Bdrops the line वक्त्रात्यमरः /