________________ प्रलाकः 2] गीतगोविन्दकाव्यम् श्रीजयदेवभणितमिदम् उदयति शोभते। इदमिति किम् / अद्भतकेशवकेलिरहस्यम् / अद्भताः केशवस्य केलयः क्रीडास्तासां रहस्यम् / किम्भूतम् / यशस्य * यशस्करम् / शुभानि वितनोतु विस्तारयतु / गीतापेक्षितार्थ श्लोकाभ्यां सूचयति / विश्वेषामित्यादि / विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर श्रेणीश्यामलकोमलैरुपनयन्वङ्गैरनङ्गोत्सवम् / स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति // 1 // हे सखि राधे ! मधौ वसन्ते मुग्धो मनोहरो हरिः क्रीडति / यतोऽहरहः अविद्या तत्कार्य संसारं हरतीति हरिः परमात्मापि सन् / मुग्धोऽविवेकी च / क इव / मूर्तिमान् शृङ्गार इव / किम्भूतः। स्वच्छन्दं यथा स्यात्तथा व्रजसुन्दरीभिबल्लवीभिः अभितः पुरतः पृष्ठतश्च आलिङ्गितः। कथम् / प्रत्यङ्गम् अङ्गम् अङ्गं प्रति प्रत्यङ्गम् / किं कुर्वन् / जनयन् उत्पादयन् / किम् / आनन्दं हर्षम् / केषाम् / विश्वेषां जगतां सकलप्राणिनां स्थावरजङ्गमादीनामपि / केन कृत्वा / अनुरजनेन प्रीतिभावेन / पुनः किं कुर्वन् / उपनयन् / कम् / अनङ्गोत्सवम् / अनङ्गस्य कामस्य उत्सवः उत्कर्षः / तम् / कैः कृत्वा। अङ्गैः करादिभिः / किम्भूतैः। इन्दीवरश्रेणीश्यामलकोमलैः / इन्दीवराणां' श्रेणयः राजयः तद्वत् श्यामलानि च तानि कोमलानि च तैः / अद्योत्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं पालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः / किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया दुन्मीलन्ति कुहू कुहूरिति कलोत्तालाः पिकानां गिरः॥२॥ हे सखि राधे ! अद्य अधुना वसन्तकाले श्रीखण्डशैलानिलः चन्दनाचलसमीरः ईशाचलं हिमवन्तम् अनुसरति / कस्मादिव / उत्सङ्गवसद्भुजङ्गकवलक्लेशादिव / उत्सङ्गेषु चन्दनतरुकोटरेषु 12वर्तन्ते ते भुजङ्गाः फणिनः तेषां कवलो 1) A, B चरितं . 2) केशवकेलिरहस्यम् / केशवस्य कृष्णस्य केलयः / B)केशवकेलिरहस्यं / श्रीकृष्णक्रीडारहस्यम् / 3) P, B drop this sentence. / 4) B गीताविक्षितार्थ (? गीतापेक्षितार्थ)। 5) B पातु वः। 6) B_drops from यतो to मुग्धोऽविवेकी च / 7) A, B जङ्गमानामपि / 8) B अनङ्गोत्सवम् उपनयन् / कैः कृत्वा / 9) B adds नीलकमलानां / 10) A, B नित्योत्सङ्ग / 11) B चरति / 12) A वसन्तश्च ते; B वसति वर्तते /