________________ 18] सटिप्पणकम् [ सर्गः 1 केलिकलेत्यादि केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले / मन्जुलबजुलकुञ्जगतं विचकर्ष करेण दुकूले // 5 // तथा काचिदङ्गना अमुं श्रीकृष्णं करेण दुकूले विचकर्ष आकृष्टवती / कस्मिन् स्थाने। यमुनाजलकूले। यमुनायाः जलकूलं तीरं तस्मिन् / केन निमितेन / केलिकलाकुतुकेन / केली कामक्रीडायां कलास्तासु कुतुकं विनोदस्तेन / किम्भूतम् / मञ्जुलवजुलकुञ्जगतम् / मञ्जुलः सुन्दरो यो वजुलः तस्य कुञ्ज स्थितम् / करतलेत्यादि करतलतालतरलवलयावलिकलितकलस्वनवंशे / रासरसे सह नृत्यपरा हरिणा युवतिः प्रशशंसे // 6 // 'रासरसे गोपा[? पी] क्रीडायां कापि युवतिः हरिणा श्रीकृष्णेन प्रशशंसे तुष्टुवे / किम्भूता / तेन सह नृत्यपरा / किम्भूते / करतलतालतरलवलयावलिकलितकलस्वनवंशे / कराणां तलानि तेषां तालाः वाद्यप्रकाराः तैस्तरलाश्चञ्चलाश्च वलयावलयो भूषणविशेषराजयश्च / ताभिः कलितो विशेषितः कलस्वनो मधुरध्वनिर्वशो यत्र तथा तस्मिन् / श्लिष्यतीत्यादि श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् / पश्यति सस्मितचारुतरामपरामनुगच्छति वामाम् // 7 // तथा कामपि बालां श्लिष्यति उपगृहति / कामपि बालां चुम्बति / कामपि रामा रमयति क्रीडयति / सस्मितचारु हसितं चारु यथा स्यात्तथा अपराम् अन्यां पश्यति प्रेक्षते / अपराम् अनुगच्छति / गच्छन्तीमनुसरति / श्रीजयदेवेत्यादि। श्रीजयदेवभणितमिदमद्भुतकेशवकेलिरहस्यम् / वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् // 8 // 1) B drops from यमुनायाः to तस्मिन् / 2) B क्रीडायां / 3) B मञ्जुलाः सुन्दरास्ते च ते वञ्जुला वेतसास्तेषां कुज[? कुञ्जो] गह्वर(रः) तत्र गतम् / 4) B राशरसे रासक्रीडायां / 5) B भूषणविशेषजातयश्च / 6) P चारुपरा।