________________ ग्लोकः 4] गीतगोविन्दकान्यम् [17 इह मुग्धवधूनिकरे हरिः कृष्णो विलसति क्रीडति। मुग्धाः मनोहारिण्यश्च ताः वध्वश्चेति तासां निकरः कदम्बकस्तस्मिन् / किम्भूते / विलासिनि / विलासः शृङ्गारजनितो विकारोऽस्यास्तीति तथा तस्मिन् / किम्भूतो हरिः / चन्दनचर्चितनीलकलेवरपीतवसनवनमाली / नीलं च तत् कलेवरं शरीरं चेति / चन्दनेन चर्चितमनुलिप्तं यस्य स तथा / पीतं वसनं दुकूलं यस्य स तथा / वनमालास्यास्तीति वनमाली / पुनः कथम्भूतः / केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली / केल्या चलती व्यालोले च ते मणिकुण्डले रत्नैर्युक्तकुण्डले च ताभ्यां मण्डितं गण्डयुगं यस्य स तथा / स चासौ स्मितशाली च ईषद्धास्ययुक्तः। पीनपयोधरेत्यादि पीनपयोधरभारभरेण हरिं परिरभ्य सरागम् / गोपवधूरनुगायति काचिदुदञ्चितपञ्चमरागम् // 2 // तथा काचिद्गोपवधूः अनुगायति / उदञ्चितपञ्चमरागम् / उदञ्चितः ऊवं गच्छन् स चासौ पञ्चमः पञ्चमाख्यः रागो यत्र तम् / किं कृत्वा / सरागं यथा स्यात्तथा हरिं श्रीकृष्ण प्रेयांसं परिरभ्य गाढा(ढमा)लिङ्गय / केन कृत्वा / पीनपयोधरभारभरेण / पीनौ पृथुलौ तौ च पयोधरौ च तावेव भारौ गुरुवस्तुनी। तयोर्भरः आधिक्यं तेन / कापीत्यादि कापि विलासविलोलविलोचनखेलनजनितमनोजम् / ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् // 3 // कापि प्रौढगोपी अधिकं यथा स्यात्तथा ध्यायति / किम् / मधुसूदनवदनसरोजम् / मधुदैत्यं सूदितवान् मर्दितवानिति मधुसूदनः तस्य वदनमेव सरोज मुखकमलम् / किंविशिष्टम् / विलासविलोलविलोचनखेलनजनितमनोजम् / विलासेन लीलया विलोले च ते विलोचने नयने च ताभ्यां कृत्वा खेलनं तया सह क्रीडा तस्माजनितो मनोजः कन्दर्पो येन स तथा तत् / कापीत्यादि कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले / चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले // 4 // तथा कापि नितम्बवती गोपी श्रुतिमूले कर्णमूले किमपि लपितुं भाषितुं मिलिता सती दयितं कृष्णं चारु यथा स्यात्तथा चुचुम्ब / क्व स्थाने / कपोलतले / किम्भूते / अनुकूले / कैः / पुलकैः रोमाञ्चैः / ____1) B प्रौढा गोपी आधिक्य / 2) B adds 'श्रीकृष्णमुखकमलम् but drops from मधुदैत्य to मुखकमलम् /