________________ 16] सटिप्पणकम् अमी वासन्तिका वासरा दिवसाः कथं कथमपि नीयन्ते / कैः / पथिकैः प्रवासिभिः / किंविशिष्टाः / उद्गीर्णकर्णज्वराः / उद्गीर्ण(र्णाः)जनिताः कर्णज्वरा कर्णसन्तापा येषु ते तथा / कैः / उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्करु(र) क्रोडकोकिलकाकलीकलकलैः / उन्मीलन्तः उद्भवन्तश्च ते मधुगन्धाश्च पुष्परसवासाश्च तत्र लुब्धा आसक्तास्ते च ते मधुपाश्च तैाधूता आन्दोलितास्ते च ते चूताङ्कुराः आम्रपल्लवाः तेषु क्रीडन्तश्च ते कोकिलाश्च तेषां काकल्यः स्फुटसूक्ष्मध्वनयः तासां कलकलाः कोलाहलाःतैः। तत्र मरणाशङ्का व्या(?आ)पादिता। कैः साधनैः कृत्वा नीयन्ते / ध्यानावधानक्षणप्राप्तप्राणसमासमागमरसोल्लासैः / गृहस्थितध्याने अथवा ध्या(? ध्यै)' चिन्तनेत्यर्थे तस्य क्षणस्तस्मिन् प्राप्तां(? प्राप्तं) नष्टपुत्रादिदर्शनम् / ईक्षिताश्च ताः प्राणसमाः प्राणेन तुल्याः स्वकीयाङ्गनाश्च तासां समागमा भोगाश्च तैः रसाः सुखानि तैरुल्लासाः परितोषाः तैः अथवा किंभूतैर्नीयन्ते / ध्यानेति। रसाः सुखानि तैरुल्लासाः परितोषा येषां तेस्तथा / उत्तरगीतं श्लोकेन सूचयति / अनेकेत्यादि- . अनेकनारीपरिरम्भसंभ्रमस्फुरन्मनोहारिविलासलालसम् / मुरारिमारादुपदर्शयन्त्यसौ सखी समक्षं पुनराह राधिकाम् // 1 // __ असौ सखी राधां प्रति पुनराह अब्रवीत् / किं कुर्वती सती / आरात् समीपे समक्षं सखीनामग्रे प्रत्यक्षं यथा स्यात्तथा मुरारिं श्रीकृष्णम् उपदर्शयन्ती। किंभूतम् / अनेकनारीपरिरम्भसंभ्रमम् अनेकाश्च ताः नार्यश्च तासां परिरम्भः आश्लेषः तत्र संभ्रमो यस्य स तथा / पुनः किम्भूतम् / स्फुरन्मनोहारिविलासलालसम् मनो हर्तुं शीलमस्य स तथा / विलासो हासः तत्र लालसः कामो यस्य स तथा स्फुरंश्चासौ मनोहारी विलासलालसश्च तम् अनेकनारीपरिरम्भसंभ्रमस्फुरन्मनोहारिविलासंलालसम् / चन्दनेत्यादि - रामगिरीरागे यतिताले चन्दनचर्चितनीलकलेवरपीतवसनवनमाली / केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली // 1 // हरिरिह मुग्धवधूनिकरे विलासिनि विलसति केलिपरे। ध्रुवं पदम् // 1) B गृहस्थितः ध्यानेः / अथवा ध्यानचिन्तनार्थ तस्य क्षणस्व(स्त)स्मिन् / पुत्रादिप्राप्तपुत्रादि दर्शनं ईक्षताश्च ताः / 2) B reads here the verse नित्योत्सङ्गवसद्भुजङ्ग etc occurring towards the end of this canto (with the variant reading अद्योत्सङ्गवसद्भुजङ्ग) and adds the gloss. 3)B रामगरीरागेण गीयते / रागलक्षणात् / ...... रामकली प्रदी(दि)ष्टा / रूपकताले /