________________ गीतगोविन्दकाव्यम् [13 मृगमदेति मृगमदसौरभरभसवशंवदनवदलमालतमाले / युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले // 3 // पुनः 1किम्भूते / मृगमदसौरभरभसवशंवदनवदलमालतमाले / मृगमदः कस्तूरी तस्य सौरभम् आमोदः तस्य रभसः आधिक्यं तस्य वशंवदानि अनुसारीणि सदृशानि तद्वत्सुगन्धीनि तानि च नवदलानि नूतनपर्णानि तेषां माला समूहो यस्मिन् तादृशस्तमालो यत्र स तथा तस्मिन् / पुनः किम्भूते / युव. जनहृदयविदारणमनसिजनखरुचिकिंशुकजाले / युवानो तरुणाश्च ते जनाश्च तेषां हृदयानि तेषां विदारणं तस्मै / मनसिज-नखाः कन्दर्प-करजाः तेषां रुचिरिव दीप्तिर्येषां तानि तथा तानि च नवकिंशुकानि पलाशकुसुमानि च तेषां जालं समूहो यस्मिन् स तथा तस्मिन् / मदनेत्यादि मदनमहीपतिकनकदण्डरुचिकेसरकुसुमविकाशे / मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे // 4 // पुनः किंभूते / मदनमहीपतिकनकदण्डरुचिकेसरकुसुमविकाशे / मदनश्चासौ महीपती राजा च / तस्य कनकदण्डछत्रं तस्य रुचिरिव रुचिः येषां तानि तथा / तानि च केसरकुसुमानि नागकेसरकुसुमानि तेषां विकाशो विकसनं यस्मिन् स तथा तस्मिन् / पुनः किंभूते / मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे / मिलिताः शिलीमुखाः षट्पदाः यस्मिन् तत्तथा। तबत्पाटलिपटलं पाटलिकुसुमनिवहं च तेन कृत्वा कृतः स्मरतूणविलासः स्मरस्य मदनस्य तूणीरस्य शोभाकारो यस्मिन् स तथा / तस्मिन् / विलितेत्यादि विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे / विरहिनिकृन्तनकुन्तमुखाकृतितकदन्तुरिताशे // 5 // पुनः किंभूते / विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे / विगलिता गता लज्जा यस्य निर्लज्जवदित्यर्थः / तच्च तज्जगच्च तस्यावलोकनं तस्मात्तरुणैः नवैः करुणतरुभिः कृतो हासः पुष्पलक्षणो यस्मिन् स तथा / अथवा अवलोकनेन तरुणकरुणानि नवीनकरुणकुसुमान्येव कृतो हासो येन वसन्तेन स तथा तस्मिन् / पुनः किंभूते / विरहिनिकृन्तनकुन्तमुखाकृतिकेतकि(की)दन्तुरिताशे / विरहिणां वियोगिनां निकृन्तनं छेदनं तस्मै कुन्तः 'अस्त्रविशेषः कामनासः 1) B कथंभूते वसन्ते. 2) B नूनपत्राणि. 3) A B पाटलपटल 4) B adds वसन्ते. 5) P ०लोकित. 6) A केकि(को) B केतकी. 7) A, B आयुधविशेषः