________________ 12] सटिप्पणकम् विहरति हरिरिह सरसवसन्ते नृत्यति . युवतिजनेन समं सखि विरहिजनस्य दुरन्ते ॥ध्रुवपदम् // 1 // हे सखि राधे इह अस्मिन् सरसवसन्ते हरिः श्रीकृष्णः विरह( हर )ति क्रीडति / सकलपुष्पादिरसेन सह वर्तत इति सरसः सरसश्चासौ वसन्तश्चेति / तस्मिन् / न केवलं विहरति नृत्यति च / कथम् / समं सार्धम् / केन युवतिजनेन / युवतिश्चासौ जनश्चेति / जात्यभिप्रायेण एकवचनम् / साकं सार्द्ध समं सह / तृतीया सहयोगे / किम्भूते वसन्ते / 'दुरन्ते / दुःखेन प्राप्यते अन्तं अवसानं समाप्तिर्यस्य स तथा तस्मिन् / कस्य विरहिजनस्य / स्वप्नमदायाः सकाशाद् विरहो विश्लेषो यस्यास्तीति स विरही स चासौ जनश्चेति / तस्य विरहिजनस्य दुरन्तत्वं दर्शयति / पुनः किंभूते / ललितलवङ्गलतापरि शीलनकोमलमलयसमीरे / ललिता रमणीयाश्च ता लवङ्गलताश्च तासां 1परिशीलनं स्पर्शः तेन कोमलो मन्दो मलयसमीरः चन्दनाचलवायुर्यत्र संस्तथा तस्मिन् / पुनः किम्भूते / मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे / मधु. कराणां भ्रमराणां निकरः समूहः तेन करम्बिता मिश्रिताश्च ते कोकिलाश्च तेषां कूजितं शब्दितं कुञ्जकुटीरं यस्मिन् स तथा तस्मिन् / कुञ्जान्येव कुटीराणि ह्रस्वमन्दिराणि / उन्मदेत्यादि उन्मदमदनमनोरथपथिकवधूजनजनितविलापे / अलिकुलसङ्कुलकुसुमसमूहनिराकुलबकुलकलापे // 2 // पुनः किंभूते / उन्मदमदनमनोरथपथिकवधूजनजनितविलापे। उन्मदमदनश्च उद्गतौ हर्षकामौ यत्र / एवंविधो मनोरथः कामुकस्पृहा / तया युक्तानां पथिकवधूजनानां जनितो विलापः परिदेवनं यस्मिन् वसन्ते येन वा स तथा तस्मिन् / अथवा पथिकानां वधूजनानां उत्कृष्टो मदो येन स तथा चासौ मदनश्च तेन मनो[ रथः ] प्रियसङ्गमाभिलाषो येषां ते तथा ते च पथिकवधूजनाश्च तैर्जनितः कृतः विलापः परिदेवनं यत्र स तथा तस्मिन् / पुनः किम्भूते / अलिकुलसकुलकुसुमसमूहनिराकुलबकुलकलापे / अलीनां भ्रमराणां कुलं समूहस्तेन सकुलो व्याप्तः स चासौ कुसुमसमूहश्च तेन निरन्तरं आकुला व्याप्ताः बकुलानां कलापाः समूहा यत्र स तथा तस्मिन् / 'वकुलो वजुलोऽशोके समौ करकदाडिमौ' इत्यमरः / 1) B adds वसन्ते. 2 ) B reads उत् अधिकं मदो यस्य स उन्मदमदनश्चासौ मनोरथश्चेति उद्गतो हर्षकामो यत्र एवं मनोरथः.