________________ गीतगोविन्दकाव्यम् किंभूतमिव / व्यक्तानुरागमिव / अन्तःस्थितः सन् बहिनिःसृत्य व्यक्तः आविर्भूतः अनुरागः प्रेम यस्मिन् तत्तथा तदिव / पुनः किंभूतम् / खेलदनङ्गखेदस्वेदाम्बुपूरम् / खेलत् क्रीडंश्चासौ अनङ्गश्च तेन खेदः प्रयासः तेन स्वेदाम्बु स्वेदरूपं नीरं तस्य पूरः प्रिवाहः समूहो यत्र तत्तथा तस्मिन् तत् / गीतार्थ प्रलोकेन सूचयति / वसन्तेत्यादि वसन्ते वासन्तीकुसुमसुकुमारैरवयवै भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् / अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया __वलद्वाधां राधां सरसमिदमूचे सहचरी // 2 // राधां प्रति सहचरी सखी सरसं यथा स्यात्तथा यदने गीतेन वक्ष्यमाणं इदमेव ऊचे उवाच / रसेन सह वर्तत इति सरसम् / तक्रियाविशेषणं द्वितीयान्तं नपुंसकमेव / किंभूताम् राधाम् / वलद्वाधां वलन्ती वर्धमाना बाधा व्यथा यस्यास्ताम् / कस्मिन् काले / वसन्ते / किंभूताम् भ्रमन्तीं चलन्तीम् / कस्मिन् / कान्तारे दुर्गे पथि मार्गे / कैरवयवैः / चरणादिभिः। किंभूतैः। वासन्तीकुसुमसुकुमारैः। वासन्ती माधवीलता / तस्याः कुसुमानि / तद्वत् सुकुमारा मृदुलाः तैः। पुनः किंभूताम् / बहुविहितकृष्णानुसरणाम् / बहुधा अनेकप्रकारेण अथवा बहुवारं विहितं कृतं कृष्णानुसरणं कृष्णान्वेषणं यया सा तथा ताम् / कया हेतुभूतया। अमन्दं अत्यर्थं यथा स्यात्तथा कन्दर्पज्वरजनितचिन्ताकुलतया / दाहहेतुत्वात् कन्दर्प एव ज्वरः अथवा कन्दर्पण ज्वरस्तेन जनिता प्रादुर्भूता जीवनचिन्ता तया आकुला व्याकुला तस्याः भावस्तया / ललितेत्यादि वसन्तरागे रूपकताले / ललितलवङ्गलतापरिशीलनकोमल[ मल ]यसमीरे मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे / 1 ) P, A प्रवाहसमूहो 2 ) A चलद्वाधां 3 ) A च यत् तदूचे; B इद( ?दं ) यत्तदूचे. 4 ) A adds इत्यमरः / / 5) A drops रूपकताले; B ) वसंतरागेण गीयते रूपकताले / रागलक्षणात् / 6) B परिशीतल