________________ 10] सटिप्पणकम् ____ अभिनवेत्यादि अभिनवजलधरसुन्दर धृतमन्दर ए श्रीमुखचन्द्रचकोर जय जय देव हरे // 7 // पुनः किंभूत / अभिनवजलधरसुन्दर / अभिनवो नवीनश्चासौ जलधरप्रचेति तद्वत् सुन्दरः श्यामः तस्य संबोधनम् / पुनः किंभूत / धृतमन्दर / अमृतोन्मथने धृतः पृष्ठे मन्दराचलो येन स तथा तस्य संबोधनम् / पुनः किंभूत / श्रीमुखचन्द्रचकोर / श्रियो लक्ष्म्या मुखं तदेव चन्द्रः तस्य चकोरः तस्य संबोधनम् / चकोरो हि चन्द्ररश्मिपानं करोति / अयमपि श्रीमुखाधरपानं करोतीत्यर्थाभिप्रायः / श्रीजयदेवेत्यादि श्रीजयदेवकवेरिदं कुरुते मुदम् ए मङ्गलमुज्ज्वलगीतं जय जय देव हरे // 8 // श्रीजयदेवकवेः इदम् उज्ज्वलेत्यभिप्रायं प्रकटयति श्लोकः / *पोत्यादि पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितमुरो मधुसूदनस्य / व्यक्तानुरागमिव खेलदनङ्गखेदस्वेदाम्बुपूरमनुपूरयतु पियं वः // 1 // मधुसूदनस्य मुरारेः उरो वक्षो वो युष्माकं प्रियम् अपेक्षितम् अनुपूरयतु / करोत्वित्यर्थः / किंभूतम् उरः / पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितम् / पनायाः लक्ष्म्याः पयोधरौ तयोस्तटी परिसरः पार्श्वभागः तस्याः परिरम्भः उपगूहनं तेन लग्नं च तत् काश्मीरं कुङ्कुमं च तेन' मुद्रितम् / तत्स्तनाकारमण्डलाकृतिचिह्नितम् / ममेदं मुरारेरुरो न त्वन्यस्याः इत्यभिप्रायेण मुद्रितं चिह्नितम् / अन्योऽपि स्ववस्तुनि द्रव्ये वा प्रन्थिमुद्राङ्कलक्षं करोतीत्यर्थः / 1) B नवश्च आसा(षा)ढजलधरश्चेति / 2) B करोतीत्यर्थः / 3) B reads the following verse betweer verse no. 7 and verse no. 8:तव चरणं (१चरणे) प्रणता वयमिति भाव[य] ए / कुरु कुशलं प्रणतेषु जय जय देव हरे // It is to be noted, however, that B does not have any comment on it. 4) A श्री / / P पद्मति. 5) P मुरसूदनस्य / 6) P पूरमुपपूरयतु / ) 7: B adds चेति / 8) द्रव्येन प्रन्थिमुद्राङ्कलक्षं करोतीत्यर्थः / B द्रव्ये वा ग्रन्थं तमुद्रां (2) करोति इत्यर्थः /