________________ गीतगोविन्दकाव्यम् किंभूत / कालियविषधरगञ्जन / कालियश्चासौ विषधरच व्यालः / तं गञ्जयतीति तस्य संबोधनम् / पुनः किंभूत / जनरञ्जन / जनं स्वभक्तं रक्षयतीति तस्य संबोधने / पुनः किंभूत / यदुकुलनलनदिनेश यदूनां कुलं वंशः तदेव नलिनं तस्य दिनेशः सविता प्रकाशकः / मधुमुरेत्यादि मधुमुरनरकविनाशन गरुडासन ए सुरकुलकेलिनिदान जय जय देव हरे॥४॥ किंभूत / हे मधुमुरनरकविनाशन / मधुश्च मुरश्च नरकश्च मधुमुरनरकाः दैत्यविशेषास्तान् विनाशयतीति तस्य संबोधने / पुनः किंभूत / गरुडासन / गरुड एव आसनं यानं यस्य तस्य संबोधनम् / पुनः किंभूत / सुरकुलकेलि. निदान / सुराणां कुलं समूहः तस्य केलिः क्रीडा तस्याः अनुग्रहद्वारेण निदानम् आदिकारणं तस्य संबोधने / अमलेत्यादि अमलकमलदललोचन भवमोचन ए त्रिभुवनभवननिधान जय जय देव हरे // 5 // हे अमलकमलदललोचन / अमलं शुद्धं यत् कमलं तस्य दलं तल्लोचने यस्य तस्य संबोधने / पुनः किंभूत / भवमोचन / भवात् संसारान्मोचयतीति मुक्तिं प्रापयतीति तस्य संबोधनम् / पुनः किंभूत / त्रिभुवनभवननिधान / त्रयाणां भुवनानां समाहारस्त्रिभुवनं तस्य भवनम् उत्पत्तिः तस्य या अविद्या तया परिकल्पितं तस्य निधानम् आधारः तस्य संबोधनम् / अथवा त्रिभुवनमेव भवनमिव भवनम् माश्रयः। जनकसुतेत्यादि जनकसुताकृतभूषण जितदूषण ए समरशमितदशकण्ठ जय जय देव हरे // 6 // . हे जनकसुताकृतभूषण / जनकस्य सुता सीता तस्याः कृतं शोकनिवृत्तिकादिभूषणमलङ्करणं येन स तथा तस्य संबोधनम् / पुनः किंभूत / जितदूषण / जितो दूषणो राक्षसो येन स तथा तस्य संबोधनम् / पुनः किंभूत / समरशमितदशकण्ठ / समरे संग्रामे शमितः शान्तिं प्रापितो दशकण्ठो रावणो येन स तथा तस्य संबोधनम् 1) B adds निदान त्वादिकारणमित्यमर(:)। 2) A या विद्या /