________________ 14] सटिप्पणकम् तस्य मुखमग्रभागः तस्याकृतिरिवाकारो येषां तानि तथा तानि च केतकि(की)दन्तुरितानि च तानि आशासु दिक्षु यस्मिन् स तथा तस्मिन् / 'दन्तुरि तस्येव आचरितानि केतकीनां दन्तुरितानि मुकुलानि / अथवा कुन्तमुखस्येवाकृतिर्यासां तास्तथा / ताश्च ताः केतक्यः केतकीमुकुलानि च ताभिर्दन्तुरिता आशा दिशो यस्मिन् स तथा / माधविकेत्यादि माधविकापरिमलललिते नवमालतिजातिसुगन्धौ / मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ // 6 // पुनः किंभूते। माधविकापरिमलललिते / माधिकायाः कुसुमितवासन्त्याः परिमलो गन्धः तेन ललितः रमणीयः तस्मिन् / पुनः किंभूते / *नवमालतिजातिसुगन्धौ / नवा नूतनाश्च ता मालत्यश्च तासां जातिः प्रादुर्भावः / जनी प्रादुर्भावे इत्यस्य जादेशे तिप्रत्ययः / तथा शोभनो गन्धो यस्मिन् स तथा अथवा नवमालिकया 'कारणभूतया पुष्पविशेषेण अतिसुगन्धौ / नवा च मालिका चेति तया / पुनः किंभूते / मोहनकारिणि / मोहन वैचित्यं कर्तुं शीलमस्येति स तथा तस्मिन् / केषां / मुनिमनसामपि / मुनयो जितेन्द्रियाः वनवासिनो विकार हीनाः नित्यनैमित्तिकादिवताचारवन्तस्तेषामपि। पुनः किंभूते / तरुणाकारणबन्धौ / तरुणानां युवजनानां अकारणेन उपकारं विनैव बन्धुः हितकारी कुटुम्बसहायः कामोद्दीपनत्वात् / तस्मिन् / स्फुरदतीत्यादि स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते / वृन्दावनविपिने परिसरपरिगतयमुनाजलपूते // 7 // पुनः किंभूते / स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते / स्फुरन्ती पुष्पवन्ती चासौ अतिमुक्तलता च वासन्ती / तस्याः परिरम्भणं कर्तरि षष्ठी। तेन मुकुलितः पुलकितः रोमोद्गमश्च चूत आम्रवृक्षो यत्र स तथा तस्मिन् / कस्मिन् स्थाने हरिविहरति / वृन्दावनविपिने / वृन्दावनाख्यं यद्विपिनं वनं तत्तस्मिन् / पुनः 1°किंभूते / परिसरपरिगतयमुनाजलपूते / परिसरे समीपे परिगतं समन्ताद्गतं तच्च तद्यमुनाजलं च तेन पूते पवित्रीभूते तस्मिन् / 1) Breads: दन्तुरितान्येव आचरितानि केतकीनामाचरितानि दन्तुरितानि मुकुलानि / 2) P मालिक; B मल्लिका. 3) B adds वसन्ते 4) P मालिक B मालति. 5) B drops जनी...प्रत्ययः। 6) B नवमल्लिकया 7) P, B करणभूतया. 8) B मोहन्यां वैचित्यम् ? 9) B drops कर्तरि षष्ठी. 10) B कथंभूते वसन्ते /