________________ 3 प्रलोकः 1] गीतगोविन्दकाव्यम् वाचः पल्लवयत्युमापतिधरः संदर्भशुद्धिं गिरां जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते / शृङ्गारोत्तरसत्यमेयरचनैराचार्यगोवर्धन स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविमापतिः // 3 // उमापतिधरो वाचः पल्लवयति केवलं कोमलां वाचं विस्तारयतीत्यर्थः / न तु गिरां वाणीनां संदर्भशुद्धि जानीते / तथा शरणः कविः श्लाघ्यः प्रशस्तः / कस्मिन् विषये / दुरूहद्रुते / दुःखेन अप्यूहितुं शक्यत इति दुरूहः / दुरूहं. व, द्रुतं च तं तस्मिन् / अतिशीघ्रं वक्तुं समर्थ इत्यर्थः / तथा आचार्यों गोवर्धनः. प्रलाध्यः / कैः शृङ्गारोत्तरसत्प्रमेयरचनैः / शृङ्गारोत्तराणि शृङ्गारप्रधानानि च. सत्प्रमेयानि उत्कृष्टप्रमेयानि च तेषां रचनानि / शृङ्गारोत्तरसत्प्रमेयरचनानि तैः। तथा धोयी नाम कविक्ष्मापतिः कविराजः श्रुतिधरः श्रुत्या श्रवणेन धारयतीत्यर्थः। अस्य प्रलोकस्य कविः क्षमापतिः राजा लक्ष्मणसेनः / अस्मिन् ग्रन्थे किं वक्तव्यं जनप्रवर्तनप्रयोजनं तदाह / यदीत्यादि यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् / मधुरकोमलकान्तपदावलों शृणु तदा जयदेवसरस्वतीम् // 4 // हरिस्मरणे श्रीकृष्णानुचिन्तने यदि मनो हृदयं सरसं सरागं तवास्ति / यदि च विलासकलासु तव कुतूहलमस्ति / विपूर्वो लस् कान्तौ धातुः / विलासानां कलाः तासु / 'कौतूहलं कौतुकं च कुतुकं च कुतूहलम्' इत्यमरः / तदा हे बुधजन ! जयदेवस्य कवेः सरस्वती वाणी शृणु आकर्णय / कथंभूतां सरस्वतीम् / मधुरकोमलकान्तपदावलीम् / मधुरं स्वादु कर्णपेयम् / कोमलं स्निग्धम् / कान्तं कमनीयम् / एतैर्गुणैरुपेता पदावली पदपङ्क्तिर्यस्याः सा तथा ताम् / प्रलयेत्यादि अष्टपदी 1 / "मालवरागरूपकताले। प्रलयपयोधिजले धृतवानसि वेदं विहितवहिनचरित्रमखेदम् / केशव धृतमीनशरीर जय जगदीश हरे // ध्रुपदम् // 1 // 1) A जनप्रवृत्तिप्रयोजने किंवा / यदीत्यादिना, B जनप्रवृत्तिप्रयोजने किं च, यदीत्यादि / 2) A मालवरागे रूपकताले, B गौडमालरागेण गीयते रागलक्षणात्। B adds here the definition of the Malava-raga and the Rupaka-tala. These and such other definitions will be given separately in an appendix.