________________ सटिप्पणकम् [सर्गः 1 अध्वकुञ्जमं कामुकानां रमणीयं सङ्केतस्थानम् / कस्माद्तयोः नन्दनिदेशतः / नन्दो गोपः सर्वाभीरमुख्यो यमुनातटवृन्दावनगोष्ठस्थितः सन् बालकभयहेतुमाकलय्य दध्यादिक्रयविक्रयादिनाऽहर्निशं भयहीनां राधां आदिदेश / कथम् / इत्थम् / इत्थं कथम् / हे राधे तत्तस्माद्धेतोः इमं बालकं गृहं प्रापय / नीत्वा गृहं गच्छ / स्वमनोवाञ्छितं गोप्तुकामान्तर्गताभिप्रायेण यद्येवं राधा वदति / 'ततः कस्मात् / यतो नक्तं रात्रौ अयं भीरुः बाल्यभावादतिशयेन भीत इति / पुनः राधायाः स्वगतमेवम् / अहो आश्चर्यमेतत् / दिनमणौ विद्यमानेऽपि कथं नक्तलक्षणम् / तदाह / मेधैर्जलधरैरम्बरमाकाशं मेदरं व्याप्त छन्नं नेत्रभीषणम् / तमालद्रुमैस्तापिच्छतरुभिर्गाढाञ्जनसंनिभैर्वनभुवोऽरण्यभूमयः श्यामा निबिडान्धकारतुल्याः / अनेन हेतुना नक्तलक्षणं विनापि बालकोऽज्ञानत्वाद् वने विमेति / विद्यमाने भयहेतौ पुनः किम् / अतो मातुरन्तिकं नयेत्यर्थः // 1 // ___सरस्वत्याः प्रसादं विना कथं मनसीप्सितो ग्रन्थः करणीय इत्याह / वाग्देवतेत्यादि वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती / श्रीवासुदेवरतिकेलिकथासमेत मेतं करोति जयदेवकविः प्रबन्धम् // 2 // एतं प्रबन्धं जयदेवकविः करोति / किंभूतं प्रबन्धम् / श्रीवासुदेवरतिकेलिकथासमेतम् / श्री लक्ष्मी राधारूपिणी / वसुदेवस्यापत्यं वासुदेवः कृष्णः कंसदैत्यविनाशाय आद्यः अजन्मा मानवावतारे मनुजरूपी।रतिश्च प्रीतिः। केलिः क्रीडा च अनुभत(?अनुभूत)कर्म आलये श्रीश्च वासुदेवश्च तयोः रतिकेलिकथास्ताभिः समेतं संयुक्तम् / कथंभूतो जयदेवकविः। पद्मावतीचरणचारणचक्रवर्ती / पद्मावती लक्ष्मीः तस्याः चरणौ। तयोश्चारणं शुश्रूषाराधनं तत्र चक्रवर्ती सेवकाधिराजः। अथवा पद्मावती तस्य ब्राह्मणी तस्याः नृत्यकलाचक्रवर्ती / पुनः किंभूतः। वाग्देवताचरितचित्रितचित्रसद्मा। वाक् चासौ देवता चेति / तस्याश्चरितं तेन चित्रितं विचित्रीकृतं चित्तमेव सद्म गृहं यस्य स तथा / अनेन लक्ष्मी. सरस्वत्योर्जयदेवो निष्णातः शृङ्गारी च सूचितः। जयदेवस्य कवेः कोऽपि कविः स्पर्धी स्पर्धावान्- समानोऽधिको वा न विश्रुतः न ख्यातः / ननु उमापतिधरादयः सन्तीत्याह / वाच इति 1)B रमणीयरतिस्थानम् / 2) A ततः कस्माद् भयम् / 3) A कंसदैत्यविनाशायाष्टमावतारिमनुजरूपी, (1 कंसदैत्यविनाशाय अष्टमावतारी मनुजरूपी) _____B कंसदैत्यवधायाष्टमावतारमनुजरूपी / 4) A अनुन्नकर्मालये, P अनुभवकर्मालये। 5) This introductory remark is placed by P after the verse ar: etc.