________________ // श्रीः॥ महाकविश्रीजयदेवविरचितं गीतगोविन्दकाव्यम् मानाङ्केन महीभुजा कृतया टिप्पणिकया संवलितम् / प्रथमः सर्गः। सामोददामोदरः। मेधैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय / इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुजद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहाकेलयः // 1 // ॥ॐ नमः श्रीवासुदेवाय // चराणां स्थावराणां च येन सृष्टिः कृता पुरा / सर्वज्ञाय नमस्तस्मै शानदात्रेऽच्युतात्मने // 1 // कवीनां मतिमालोक्य सतां च सुखबुद्धये / कृता टिप्पणिका मुख्या मानाङ्केन महीभुजा // 2 // प्रीतये वासुदेवस्य सद्यः पापापनुत्तये / *गीतगोविन्दकं काव्यं जयदेवश्चकार ह // 3 // राधामाधवयोः रहाकेलयः निर्जनस्थानक्रीडाः जयन्ति सर्वोत्कर्षेण वर्तन्ते। राधा कापि गोपाङ्गना मुख्या / माधवः कृष्णरूपी नारायणः। सा च स च तौ तयोः / व्यभिचरति चेतिवशात् अर्चितपदस्य [न] पूर्वनिपातः। यथा नरनारा. यणौ उमामहेश्वरौ काकमयूरावित्यादि / यमुना नदी / तस्याः कूलं तट तस्मिन् / आधारे सप्तमी / किंभूतयोः प्रत्यध्वकुञ्जमं चलितयोः गतयोः / अध्वनि अध्वनि प्रति कुजे कुजे प्रति द्रुमे द्रुमे प्रति / वीप्सायामव्ययीभावः। 1) A श्रीमते रामानुजाय नमः, B श्रीगणेशाय नमः // 2) A कवीनां मनसालोक्य / . 3) A मामाङ्केन, B मानाकेन 4) A, B जयदेवश्चकारेदं काव्यं गीतगोविन्दकम् / / 5) B लक्ष्मीनारायणौ /