________________ सटिप्पणकम् [ सर्गः१ _हे केशव धृतमीनशरीर / धृतं मीनस्य शरीरं येन स तथा। तस्य संबोधनम् / हे धृतमीनशरीर / अखेदं यथा स्यात्तथा त्वं वेदं धृतवानसि / कस्मिन् / प्रलयपयोधिजले / प्रलये संवर्तकाले पयोधिरर्णवस्तस्य जलं तस्मिन् / महाप्रलयकाले परमेश्वरो वेदं स्वीकृत्य ब्रह्माणमुत्पाद्य तस्मै प्रयच्छति / 'यो ब्रह्माणं विदधाति पूर्व योऽसौ वेदांश्च प्रहिणोति तस्मै।' (श्वेताश्वतर 6. 18) इति श्रुतिः / किंभूतं वेदम् / विहितवहित्रचरित्रम् / विहितं कृतं वहित्रस्य पोतस्य चरित्रं आचरितं येन स तथा। वहिनं सागरतारकं भवति / वेदोऽपि नित्यनैमित्तिककर्मप्रतिपादनद्वारेण संसारसागरतारको भवतीत्यर्थः / जगन्ति ईष्टे नियमयतीति जगदीशः / तस्य संबोधनं हे जगदीश। हे हरे स्मृतः सन् हरति संसारक्लेशमिति हरिः तस्य संबोधनं / हे हरे / त्वं जय / स्वमायया शत्रुसंहरणद्वारेण स्वभक्तपरिपालनेन सर्वोत्कृष्टो भव / क्षितिरित्यादि क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे धरणिधरणकिणचक्रगरिष्ठे। केशव धृतकच्छपरूप जय जगदीश हरे // 2 // हे केशव धृतकच्छपरूप / धृतं कच्छपस्य रूपं येन स तथा संबुद्धिः / तव पृष्ठे क्षितिः पृथ्वी तिष्ठति / किंभूते / अतिविपुलतरे / अतिशयेन विपुलं विस्तीर्ण तस्मिन् / पुनः किंभूते / धरणिधरणकिणचक्रगरिष्ठे / धरण्याः भूमेधरणं तेन किणः मृतरक्तग्रन्थिः / स एव 'चक्रं चक्राकारः तेन गरिष्ठं गुरुतरम् / तस्मिन् / जगदीश ! हरे ! इति सर्वत्र योज्यम् / वसतीत्यादि ___ वसति दशनशिखरे धरणी तव लग्ना शशिनि कलङ्ककलेव निमग्ना। केशव धृतशूकररूप जय जगदीश हरे // 3 // तव दशनशिखरे दन्तस्याने लग्ना धरणी पृथ्वी वसति तिष्ठति / दशनस्य शिखरं तस्मिन् / कस्मिन् केव / शशिनि चन्द्रे निमग्ना कलङ्ककलेव / कलङ्कस्य कला कलङ्ककला / तव करेत्यादि तव करकमलबरे नखमद्भुतशृङ्गं दलितहिरण्यकशिपुतनुभृङ्गम् / केशव धृतनरहरिरूप जय जगदीश हरे // 4 // 1) B यो वैः . This reading is found in the printed text of the Upanisad. 2)P A चक्रः /