________________ द्वादशः सर्गः सुप्रीतपीताम्बरः। गीतावतार'लोकमाह-गतवतीत्यादि। गतवति सखोवृन्देऽमन्दत्रपाभरनिर्भर स्मरपरवशाकूतस्फीतस्मितस्नपिताधराम् / सरसमलसं दृष्ट्वा राधां मुहुर्नवपल्लव प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियाम् // 1 // हरिः श्रीकृष्णः यदने वक्ष्यमाणं प्रियां राधां प्रत्युवाच / किं कृत्वा / सरसं सरागं यथा स्यात्तथा सुरताभिलाषिणी तां दृष्ट्वा / किम्भूतां राधाम् / अलसं सालसं यथा भवति तथा / मुहुर्वारंवारं नवपल्लवप्रसवशयने निशिताक्षी नवं च तत्पल्लवं चेति प्रसवाणि पुष्पाणि च तयोः शयनं शय्या तस्मिन् निक्षिप्ते प्राज्झिते अक्षिणी यया सा तथा ताम / न केवलं दृष्टा, पवम्भूतां स्पृष्टा / आलिडनादिकं विधाय च / पनः कथम्भताम् / [मन्दत्रपाभरनिभेरस्मरपरवशाकूतस्फीतस्मितस्नपिताधरां त्रपायाः लज्जायाः भरोऽतिशयः [अ]मन्दश्चासौ त्रपाभरश्च तेन निर्भरस्मरपरवशात् तदायत्तत्वं तच्च तत् आकृतं रत्याभिप्रायः तेन स्मितं तेन स्लपितः आर्दीभूतः अधरो यस्याः सा तथा ताम् / कस्मिन् सति / सखीवृन्दे गतवति सति / सखीनां वृन्दं समूहः तस्मिन् गतवति सति / उवाचेत्युक्तम् / *विभासरागण गीयते / एकतालिताले। तद् दर्शयति किसलयेत्यादि। किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् / तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् // 1 // क्षणमधुना नारायणमनुगतमनुसर [मां] राधिके // ध्रुवपदम् // हे कामिनि, किसलयशयनतले चरणकमल (चरणनलिन) विनिवेशं कुरु। पल्लवरचितशय्यायां चरणारविन्दं निधेहि तव पदपल्लववैरिः पराभवमनुभवतु / 1) P does not present the textual verses; it gives only the portion of the commentary. A gives only a fragment of the text and the commentary-and that too not satisfactorily-belonging to Canto XII. 2) A स्पृष्ट्वा / B भूयो। 3) A, B प्रेरिते। 4 ) A विभासरागण गीयते; B विभासरागण गीयते रागलक्षणात् / एकतालिताले / 2) A,B drop तद् / 6) P drops from हे कामिनि to कुरु इत्यादि / 14