________________ 106] सटिप्पणकम् [ सर्गः 12 यद्वा / तव पदपल्लववैरि पल्लवशयनं तत् पराभवं पराजयं प्राप्नोतु मर्दनं प्राप्नोतु / कीदृशं शयनम् / सुवेशम् / सुन्दरं क्षणं क्षणमात्रं नारायण मामनुगतमत्यादरतया प्राप्तमनुसर अनुसारं कुरु हे राधिके इति सम्बोधनम् / हे राधिके / रो मानाग्निः रागः तेनाधिके / इति सख्युपदेशं स्मारयती पूर्वाष्टपदीप्रतिपादितम् / त्वं माम् अनुसर सेव्यताविषयीकुरु / ननु मां प्रति सख्येवमुपचारश्चेति त्वया ज्ञातं तत्राह / नारायणमिति / नारं जीवसमूहः अयनमाश्रयो यस्य स तथा तम् / सर्वान्तर्यामिणमिति / तेन सर्वान्तर्यामितया मया ज्ञातमिति भावः / अनुगतमिति अनुसृतम् / क्षणमिति / राधा मामनुसरति वदति प्रत्युत्तरयति / हे कृष्ण त्वं सर इतो गच्छेत्यर्थः / ननु कामाग्निसंतप्तोऽहं क्व गच्छामि तत्राह / राधिकेति / रः कामस्तेनाधियथा तस्य के प्रकाशे सतीति शेषः। नारायणं नारा आपस्तासामयनमाश्रयं निधिमिति यावत् जानीहीत्यर्थः। तथा चोपजलधिं नारायणं कामाग्निसन्तापहाराय याहीति भावः। नन्वग्नितापहारकत्वं भवतु जलधेः / कामाग्निनाशकत्वं तु कुतः / तत्राह / अनुगतमिति / अनुगता अनुसृता मा लक्ष्मीस्तत्पुत्री येन स तथा / तस्य संबोधनं लक्ष्मीकान्तेत्यर्थः। कृष्णो राधां प्रत्युपदिशति / हे कामिनि / करकमलेनेत्यादि। करकमलेन करोमि चरणमहमागमितासि विदूरम् / क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतसूरम् // 2 // यदि त्वं दुःसख्या विदूर दूरे आगमितासि आनीतासि तत्प्रत्युपकारं करकमलेन चरणं करोमि चरणसंवाहनं करोमि / अतस्त्वमपि क्षणं क्षणमात्रं शयनोपरि मां यथा नूपुरमुपकुरु / कथम्भूतं नूपुरम् / अनुगतसूरम् अनुगतः उपमानीकृतः सूर्यो येन। वदनेत्यादि। वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् / विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् // 3 // अन्यच्च / तव वदनमेव सुधानिधिश्चन्द्रः तस्मात् अमृतम् अनुकूलं मधुरं वचनं वागमृतं वचनेन हृद्तं विरहं परस्परवियोगजनितां हृदयव्यथां तथा पयोधररोधकम् आच्छादकं दुकूलम् उरसि यत्तदपनयामि दूरीकरोमि / प्रियेत्यादि। प्रियपरिरम्भणरभसवलितमिव पुलकितमन्यदुरापम् / मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् // 4 // किञ्च / कुचकलशं मम वक्षसि स्थापय / मनसिजतापं कामज्वरदाहं शोषय शान्तं कुरु / कथम्भूतं कुचकलशम् / प्रियापरिरम्भणरभसवलितमिव पुलकितं