________________ 104 ] सटिप्पणकम् [सर्गः 11 भजन्त्यास्तल्पेत्यादि। भजन्त्यास्तल्पान्तं कृतकपटकण्डूति'पिहित स्मितं याते गेहाद बहिरेवहितालीपरिजने / प्रियास्यं पश्यन्त्याः स्मरशरसमाकूतसुभगं सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः // 9 // इति श्रीगीतगोविन्दे वास(: राधा)केशवयोर्वर्णने सानन्ददामोदरो नामैकादशः सर्गः / सायंकाले कथितुं न शक्यते / पुनर्वदति कविः। मृगहशो राधायाः लज्जापि सलज्जा दूरं व्यगमत् / लज्जया सह वर्तत इति सलज्जा / कथम्भूतायाः राधायाः। कृतकपटकण्डूति पिहितस्मितं यथा स्यात्तथा। तल्पान्तं शय्यासमीपं भजन्त्याः। कपटेन धूर्तत्वेन कृता या कण्डूतिः श्रवणकण्डूयनं तया पिहितं च स्मितं च तद् हास्यं यस्मिन्कर्मणि तत्तथा तत् / अनेनोक्तेन किं प्रयोजनम् / कक्षामूलप्रकटशिथिलाञ्चलैकस्तनप्रदेशं दर्शयतीत्यर्थः। इङ्गितकामविकारध्वनिः। पुनः किम्भूतायाः। प्रियस्य श्रीकृष्णस्य आस्यं मुखं पश्यन्त्याः। किम्भूतमास्यम् / स्मरशर' समाकूतसुभगम् / स्मरस्य कन्दर्पस्य शरस्तेन समाकूतः साभिप्राय विशेषः तेन सुभगं सुन्दरम् / तत् / कस्मिन् सति / अवहितालीपरिजने 10सालम्बने सखीसमूहे। गेहात् निकुञ्जमन्दिरात् बहिर्याति सति / अवहितश्चासौ आलीपरिजन'चेति तस्मिन् / आनन्देन सह वर्तमानः सानन्दो गोविन्दो गीयतेऽस्मिन् तत्तथा / इति श्रीगीतगोविन्दटीकायां वास( ? राधा )केशवयोर्वर्णने सानन्ददामोदरो नामैकादशः सर्गः / 1) A विहिता(त)स्मितं याते संगाबहिरवहितालोपरिजनौ / 2) B°रिवहितालीपरिजने / 3) A शरसमाकृत; B°स्मरपरवशाकूत / 4) A विहितं। 5) A विहितं 6) B_drops from अनेनोक्तेन to कामविकारध्वनिः / 7) A स्रनाकूल / B °समाकुल। 8) A / समाकूल: B समाकूलं। 9) A व सति / 10 ) A सावधानसखोसमूहे। 11 ) A गोविन्दो /