________________ 102 ] सटिप्पणकम् [सर्गः 11 तरलेत्यादि / तरलदृगश्चलचलनमनोहरवदनजनितरतिरागम् / स्फुटकमलोदर खेलितखञ्जनयुगमिव शरदि तडागम् // 4 // पुनः किम्भूतम् / तरलगञ्चलचलनमनोहरवदनजनितरतिरागं मनोहरं वदनं चेति तरलौ च तौ चञ्चलौ दृगञ्चलौ नयनप्रान्तौ च तयोश्चलनं तेन मनोहरं वदनं च तेन जनितः उत्पादितो रतिरागो येन स तथा तम् / अर्थात् राधायाः। शरदि शरत्काले। तडागमिव सरोवरमिव / किम्भूतम् / स्फुटकमलोदरखेलितखञ्जनयुगं खञ्जनः पक्षिविशेषः तस्य युगं यस्मिन् तडागे तत्तथा तत्। वदनेत्यादि / वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम् / स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् // 5 // पुनः किम्भूतम् / वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभं मिहिरः सविता तेन समे समाने कुण्डले मिलितवदनमेव कमले यस्या स तथा तम् / पुनः किम्भूतम्। स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभं समुल्लसितः सम्यग्विकसितश्चासौ अधरपल्लवश्च तस्मिन्निबद्धा स्मितरुचिः शोभा तया रुचिरः सुन्दरश्चासौ समुल्लसितोऽधरपल्लवश्च तेन कृतो रतिलोभो येन स तथा तम् / शशीत्यादि। शशिकिरणच्छरितोदरजलधरसुन्दरसकुसुमकेशम् / 'तिमिरोदितविधुमण्डलनिर्मलमलयजतिलकनिवेशम् // 6 // पुनः किम्भूतम् / शशिकिरणच्छुरितोदरजलधरसुन्दरकुसुमसुकेशं सुष्टु शोभना अतिसुलोलाश्च ते केशाश्च कुसुमैर्युक्ताः सुकेशाः, शशी चन्द्रमाः तस्य किरणा अंशवः तैः च्छरितं संघष्टं मिश्रितम उदरं यस्य स तथा चासौ जलधरो मेघश्च तद्वत् [सुन्दरीः) सुकुमाराः कुसुमसुकेशा यस्य स तथा तम् / पुनः किम्भूतम् / तिमिरोदितविधुमण्डलनिर्मलमलयजतिलकनिवेशं मलयजं चन्दनं तस्य तिलकः तिमिरे घने तमसि उदितं विधोश्चन्द्रस्य मण्डलं तद्वन्निर्मलश्चासौ मलयजतिलकश्च तस्य निवेशो यस्य स तथा तम् / विपुलेत्यादि / विपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम् / मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् // 7 // पुनः किम्भूतम् / विपुलपुलकभरदन्तुरितं विपुलो महान् पुलकः तस्य भरो रोमाञ्चातिशयः तेन दन्तुरितः व्याप्तः स तथा तम् / पुनः किम्भूतम् / मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरं मणीनां गणो निचयः तस्य किरणाः अंशवः तेषां समूहः तेन *समुज्ज्वलानि च तानि भूषणान्यङ्गदवलयकिरीटादीनि 1) A °खेलन। 2) A,B सुन्दरकुसुमसुकेशम् / 3) A तिमिरोधरविधुमण्डलमर्दित / 4) A,B समुज्ज्वलितानि /