________________ प्रलोकः 7] गीतगोविन्दकाव्यम् [101 एकस्मिन् रतिसुखे रसो रागो यस्य स तथा तम् / पुनः किम्भूतम् / चिरमभिलषितविलासम् / चिरं चिरकालम् आसाद्य अभिलषितो विलासो रतिकेलियेन स तथा तम् / पुनः किम्भूतम् / राधावदनविलोकनविकसितविविधविकारविभङ्गम् / विविधो नानाप्रकारश्चासौ खेदादिविकारश्चेति / राधायाः वदनं तस्य विलोकनं दर्शनं तेन विकसितः प्रकटितः स चासौ विविधविकारश्च तेन विभङ्गं जृम्भणादिर्यस्मिन् स तथा तम् / कमिव / जलनिधिमिव / किम्भूतम् / विधुमण्डलदर्शनतरलिततुङ्गतरङ्गं विधोश्चन्द्रस्य मण्डलं तेन तरलिता वर्धितास्तुङ्गाः / उच्चास्तरङ्गाः ऊर्मयो यस्मिन् स तथा तम् / पुनः किम्भूतं हरिम् / गुरुहर्षवशंवदवदनं गुरुर्गरिष्ठश्चासौ हर्ष आनन्दश्चेति तस्य वशंवदम् अनुसारि वदनम् आननं यस्य स तथा तम् / मुखं स्वकीयप्रसन्नताचिह्नवद्फलज्ञापकमित्यर्थः / पुनः मित्यर्थः। हारममलेत्यादि / हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् / / स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरम् // 2 // पुनः किम्भूतम् / उरसि वक्षसि हारं दधतं वहन्तम् / किम्भूतम् / अमलतरतारम् अतिशयेनामलः अमलतरः स चासौ तारो मुक्ताशुद्धियेस्मिन् स तथा तम् / किं कृत्वा दधतम् / परिलम्ब्य अवमुच्य। कथं यथा भवति / विदुरं अत्यधः यथा स्यात्तथा। कमिव / यमुनाजलपूरमिव यमुनायाः जलं तस्य पूरः समूहस्तम् / किम्भूतम् / स्फुटतरफेनकदम्बकरम्बितं स्फुटतराश्च ते फेनाश्च तेषां कदम्बः समूहः तेन करम्बितो युक्तस्तम् / श्यामलेत्यादि। श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम् / / नीलनलिनमिव पीतपरागपटलभरवलयितमूलम् // 3 // पुनः किम्भूतम् / श्यामलमृदुलकलेवरमण्डलं श्यामलं च तन्मृदुलं कोमलं च एवं विशिष्टं कलेवरस्य शरीरस्य मण्डलं यस्य स तथा तम् / पुनः किम्भूतम् / अधिगतगौरदुकूलम् अधिगतं परिहितं गौरं पीतं दुकूलं कौशेयं येन स तथा तम् / किमिव / नीलनलिनमिव नीलं च तत् नलिनं चेति / किम्भूतम् / पीतपरागपटलभरवलयितमूलं पीतश्चासौ परागप्रचेति तस्य पटलं निकुरुम्बं तस्य भरः आधिक्यं तेन वलयितं परिवेष्टितं मूलं यस्य स तथा तम् / नीलोत्पलं यदा पीतपरागेण वेष्टितं भवति तदा नीलनलिनं भवतीत्याशयः। उपमालङ्कारः / . 1) A स्वेदादि / 2) B अनुकारि / 3) B drops from मुखं to यद्वा / 4 ) A drops from अनङ्ग to यद्वा / 5) B परिलम्ब्य विदूरम् / 6) A,B मुक्ताबुद्धिर्यस्मिन् / 7) A विमलतरवलयित / /