________________ 100] सटिप्पणकम् [ सर्गः 11 केवलमतिश्रान्तः। भृशमत्यर्थं तापितश्च / केन / कन्दर्पण / ननु ममेमां त्रिभुवनविषयपराङ्मुखजनजयपताकां कटाक्षेणापि नवीकृत इत्याशयः। यतः। हे सखि ! दासे सेवकजनेऽस्मिन् कुतः संभ्रमः कोपारम्भः। भयोद्वेगादरार्थः संभ्रमः / किम्भूते। सेवितपदाम्भोजेऽपि सेवितं पदाम्भोज चरणकमलं येन स तथा तस्मिन् / पुनः किम्भूते / भ्रूक्षेपलक्ष्मीलवक्रीते / भ्रवः क्षेपः तस्य लक्ष्मीः शोभा तस्याः लवो लेशः तेन क्रोतस्तस्मिन् / अथवा / भूक्षेपलक्ष्मीनवक्रीते / नवक्रीते दासदासीविषये सर्वेषामादरो भवतीत्यर्थः / उत्तरगीतस्य प्रसङ्गमाह-सा सेत्यादि / सा ससाध्वससानन्दं गोविन्दे लोललोचना / सिञ्जानमञ्जुमञ्जीरं प्रविवेश निवेशनम् // 7 // सा राधा / ससाध्वसम् आनन्दो हर्षातिशयः सः तं निकुञ्जमन्दिरं प्रवि. वेश / साध्वसं भयं तेन सह वर्तमानं ससाध्वसम् सानन्दं च यत्कर्म तत्तथा / [? ससाध्वसमिति / आनन्दो हर्षातिशयः तेन सह वर्तमान सानन्दम् / साध्वसं भयं तेन सह वर्तमानं ससाध्वसं सानन्दं च यत्कर्म तत्तथा, (निवेशन) निकुञ्जमन्दिरं प्रविवेश।] कथम्भूता सा / गोविन्दे लोललोचना लोले चञ्चले लोचने यस्याः सा तथा पुनः कथं यथा स्यात् / सिञ्जानमजुमञ्जीरं यथा स्यात् / सिञ्जानं शब्दायमानं मञ्जु सुन्दरं मञ्जीरं नूपुरं यस्मिन् कर्मणि तत्तथा तत् / ननु रतिकोविदोऽसौ हरिः। अनेकनारीदीर्घरतेनाप्यसंतुष्टः कथं मया अबलयैकाकिन्या आराधनीयो रमणीय इति साध्वसध्वनिः / यद्यनेन नारायणेन सह सुरतक्रिया भवेत् तहिं चतुःषष्टिकामकलानां सर्वासां त्रैलोक्यस्त्रीणामुपार सर्वोत्कर्षरूपाढयगात्राणां मम यथार्थसाफल्यमिति सानन्दकरणध्वनिरिति स्वचेतसि मत्वा दूतीवचनात् राधा निकेतनं प्रविष्टेत्यर्थः। ., 'वैराडी रागे / यतिताले। राधावदनेत्यादि / ना पातताल। राधावदन विलोकन विकसितविविधविकारविभङ्गम् / जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् // 1 // हरिमेकरसं चिरमभिलषितविलासम् / सा ददर्श गुरुहर्षवशंवदवदनमनङ्गनिवासम् // राधा हरिं ददर्श / किम्भूतं हरिम् / एकरसम् 10एकोऽद्वितीयश्चासौ रस. श्चेति वर्तते यस्मिन् स तथा तम् / अतिशयकामाभिलाषसंयुक्तमित्यर्थः / अथवा 1) B उत्तरगीतप्रसङ्गमाह / 2) A,B °मानन्दे। 3) B निकेतनम् / 4) A,B तेन / B मन्दिरे। 5) A सानन्दं यथा स्यात् / 6) A यत्र यस्यां क्रियायां तत् / 7 A विराडीरागे; B विराडीरागेण गीयते एकतालीताले / अभिसारिकैव नायिका / 8) B °विलोकित° 9) A 'विलासम् / 10) A एकोऽद्वितीयो रसो वर्तते यस्मिन् स तम् ; B एकश्चासौ रसश्चेति वर्तते यस्मिन् स तथा तम् अतिशयकाभिलाषसंयुक्तम् इत्यर्थः / अथवा एकस्मिन् रतिसुखे रसो रागो यस्य तथा /