________________ ग्लोकः 6] गीतगोविन्दकाव्यम् [99 तानि शिखराणि च पक्वदाडिमबीजानि। दशना दन्ता एव रुचिरुचिरशिखराणि यस्याः सा तथा तस्याः सम्बोधने / विततेत्यादि / विततबहुवल्लिनवपल्लवसुघने / विलस चिरमलसपीनजघने // 7 // प्रविश राधे माधवसमीपमिह // पुनः किम्भूते सदने / विततबहुवल्लिनवपल्लवसुघने / वितताः सर्वत्र व्यापिन्यो बहवो विल्लयो लताः तासां नवाश्च ते पल्लवाश्च तैः सुघनं निबिडं तस्मिन् / किम्भूते राधे / हे अलसपीनजघने, हे राधे चिरं चिरकालं विलस क्रीडय / अलसा 'चासौ पीना जघना चेति तस्याः सम्बोधने / विहितेत्यादि। विहितपद्मावतीसुखसमाजे। कुरु मुरारे मङ्गलशतानि / भणति जयदेवकविराजे // 8 // क्वचिद् विशेषणं परं स्यात् / हे भक्तवत्सल मुरारे श्रीकृष्ण त्वं कुरु / कानि / मङ्गलशतानि मङ्गलानां शतानि तानि / कस्मिन् विषये। जयदेवकविराजे / *कवीनां राजा कविराजः जयदेवश्चासौ कविराजश्चेति तस्मिन् / किम्भूते। भणति / पुनः। किम्भूते / विहितपद्मावतीसुखसमाजे / नेत्रापाङ्गचालनचुम्बनालिङ्गनाद्यनेकरूपस्य सुखस्य समाजः समूहः विहितः कृतः पद्मावत्याः सुखसमाजो येन स तथा तस्मिन् / त्वां चित्तेनेत्यादि / त्वां चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः कन्दर्पण च पातुमिच्छति सुधासंबाधबिम्बाधरम् / अस्याङ्क तदलङ्कुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव क्रीते दास इवोपसेवितपदाम्भोजे कुतः संभ्रमः // 6 // हे राधे तत्तस्मात् कारणात् तव सुधासम्बाधबिम्बाधरम् अयं श्रीकृष्णः पातुमिच्छति वाञ्छति / सुधासम्बाधो घनीभूतामृतसमूहः स चासौ बिम्बाधरश्चेति स तथा तम् / सरससुपक्वविद्माकारबिम्बफलानुकारी अधरोष्ठचुम्बनरसमित्यर्थः। कथम्भूतोऽसौ वासुदेवः। अतिश्रान्तः अतिशयेन प्रयासयुक्तः / किं कुर्वन् / वहन् धारयन् / काम् / त्वाम् / केन / चित्तेन स्विचेतसि / न 1) B drops वल्लयो। 2) B चासौ पीनजघना / 3) P विशेषणपरं / 4) B कवीनां राजा इति कविराजः तेषां राजा इति राजराज जयदेवश्चासौ कविराजराज चेति तस्मिन् / 5) B drops कारणात् /