________________ 98] सटिप्पणकम् [ सर्गः 11 पुनः किम्भूते सदने / चलमलयवनपवनसुरभिशीते / मलयाचलस्य 'वनं तस्य पवनः चलश्चासौ मलयपवनश्च तेन सुरभिशीतं यस्मिन् तत्तथा तस्मिन् / सुरभि सुगन्धि तथा शीतलं च / पुनः किम्भूते राधे / रसवलितललितगीते रसेन रागेण वलितं च ललितं सुन्दरं च रसवलितं ललितं यस्याः सा तस्याः सम्बोधने / रतिललितवलितगीत इति वा पाठः / मधुमुदितेत्यादि / मधुमुदितमधुपकुलकलितरावे / विलस मदनरससरसभावे // 5 // प्रविश राधे माधवसमीपमिह // "पुनः किम्भूते 'सदने / मधुमुदितमधुपकुलकलितरावे / मधुना पुष्परसेन मुदितं हर्षितं मधुपानां भ्रमराणां कुलं तेन कलितः कृतः रावो ध्वनिः शब्दो यत्र तत्तथा। तस्मिन् / "मधु मद्यं मधु क्षौद्रं मधु पुष्परसं विदुः। मधुश्चैत्रो मधुदैत्यो मधुकेपि मधुर्मतः // " इति अनेकार्थः // कथम्भूते राधे। मदनरस1°सरसभावे मदनेन 11कन्दर्पण हेतुभूतेन कृतः रस: 13 शृङ्गारादिक्रीडा तेन सरसः कोमलो भावो यस्याः सा 13तथा तस्याः सम्बोधने 14हे मदनरससरसभावे / .. ... मधुतरेत्यादि / मधुतरलपिकनिकरनिनदमुखरे / विलस देशनरुचिरुचिरशिखरे // 6 // प्रविश राधे माधवसमीपमिह // पुनः किम्भूते 1'सदने / मधुतरलपिकनिकरनिनदमुखरे / मधौ वसन्ते तरलः उद्भटः पिकानां निकरः समूहः तस्य निनदः तेन मुखरः शब्दवान् तस्मिन् / पुनः किम्भूते 18राधे। दशनरुचिरुचिरशिखरे रुच्या दीप्त्या रुचिराणि च 1) A,B drop सदने। 2 ) A पवनः / चलचासौ मलयघनपवनश्च तेन सुरभि शितं (शीतं) यस्मिन् तत् / B वनं तस्य पवनः तेन सुरभि शीतलं यस्मिन् तथा तस्मिन् / सुरभि सुगन्धि तथा शीतलं च सुन्दरं चेति / B_drops पुनः किम्भूते राधे / रस...ललितं / 3 ) A रसवलितं ललितं गीतं यस्याः सा / तस्याः सम्बोधनम् / 4) B drops ललितं / 5) P कुसुमशरसरसभावे; A मदनशररभसभावे। 6) A drops पुनः। 7) B drops सदने... रावे / 8) B drops ध्वनिः। 9) A यत्र तस्मिन् / B यत्र तत्तथा। कथम्भूते मदनरससरसरावे। 10) A रभस; B सरसरावे / 11) A drops कन्दर्पण। B कामेन / 12) A शङ्गारकोडा। 13) A drops तथा... भावे। 14) A,B drop हे... भावे / 15 ) B मधुरतर। 16 ) B रुचिरः शुचिदशनशिखरे। 17) A, B drop सदने / 18) B drops राधे / .