________________ ग्लोकः२] गीतगोविन्दकाव्यम् [17 हे राधे माधवसमीपं प्रविश / लक्ष्मीपतेः समीपम् / कुत्र / मजुतरकुञ्ज. तलकेलिसदने / अतिशयेन मञ्जु मञ्जतरं सुन्दरम् / प्रकृष्टार्थे तरतमौ प्रत्ययौ भवतः। कुञ्जमेव कुञ्जतलम् / तलशब्दः स्वरूपार्थः। क्रीडाया मदनगृहं मजुतरं च तत् कुञ्जतलं चेति तदेव केलिसदनं क्रीडागृहम् / तस्मिन् / किमर्थ प्रबिशामि तदाह / हे रतिरभसहसितवदने राधे, इह सदने विलस विलासकेलिं कुरु / रतौ रभसः आधिक्यं प्रवृत्तस्नेहे हसितं हास्योपेतं वदनं यस्याः सा तस्याः सम्बोधनम् / नवभवेत्यादि / नवभवदशोकदलशयनसारे। विलस कुचकलशतरलहारे // 2 // प्रविश राधे माधवसमीपमिह // किम्भूते सदने / नवभवदशोकदलशयनसारे नवानि नूतनानि भवन्ति जायन्त इति नवभवन्ति च अशोकदलानि चेति तेषां शयनं शय्या तदेव सारः सारभूतं यस्मिन् / प्रविश राधे माधवसमीपमिह विलसेति पुनरुक्तिः सर्वपदे योजनीया। प्रवेशनिश्चयोत्पादनाय / . कुसुमेत्यादि / कुसुमचयरचितशुचिवासगेहे / विलस कुसुमसुकुमारदेहे // 3 // प्रविश राधे माधवसमीपमिह // 'किम्भूते सदने / कुसुमचयरचितशुचिवासगेहे। कुसुमानां चयो निकरः तेन रचितं शुचि शुद्धं वासगेहं तस्मिन् / कुसुमवत्सुकुमारो देहो यस्याः सा तथा तस्याः सम्बोधने / चलमलयेत्यादि। 'चलमलयवनपवनसुरभिशीते / विलस रसवलितललितगीते // 4 // प्रविश राधे माधवसमीपमिह // 1) A मा लक्ष्मीः तस्याः धवः पतिः तस्य समीपम् / मजुतरकुजतलम् / तलशब्द[:] स्वरूपार्थः / क्रीडाया मदनगृहं मजुतरं च कुजतलं च / तदेव; B drops लक्ष्मीपतेः समीपम् / 2) B drops रतौ......सम्बोधनम् / 3) B drops सारः। 4) B प्रविश राधे प्रवेशनिश्चयोत्पादनाय / 5 A योजनीयम् / 6) B drops किम्भूते वासगेहे / 7) P मृदुचलमलयपवनसुरभिशीते / A चलमलयघनपवनसुरभिशीते। B चलमलयवनपवनसुरभितशीते / 8) P मदनशरनिकरभीते / A सरसवलित /