________________ 96] सटिप्पणकम् / [सर्गः 11 एतत्तमालदलनीलतमं तमिस्र तत्प्रेमहेमनिकषोपलतां तनोति // 4 // __ हे राधे एतत्तमिस्रं तमः तनोति। काम् / तत्प्रेमहेमनिकषोपलतां तस्मिन् श्रीकृष्णे प्रेम तद्धेम तस्य निकषोपलता ताम्, सुवर्णपरीक्षापाषाणरूपताम् स्वयं निकषोपलो भवतीत्यभिप्रायः। किम्भूतं तमिस्रम् / तमालदलनीलतमं 'तमालस्य दलं तद्वन्नीलतमम् अतिशयेन नीलमित्यर्थः / पुनः किम्भूतम् रुचिम जरीभिः, रुचयो दीप्तय एव मञ्जर्यस्ताभिः, अभितः समन्तात् आबद्धरेखम् आबद्धा रेखा यस्मिन् तत्तथा / कासाम् / अभिसारिकाणाम् / सङ्केतस्थानगतानाम् / पुनः किम्भूतानाम् / काश्मीरगौरवपुषां काश्मीरं कुङ्कुमं तद्वद्गौराणि वपूंषि यासां तास्तथा तासाम् , सुवर्णतुल्यपीतवर्णशरीराणामित्यर्थः। प्रलोकेन गीतं सूचयति-हारावलीत्यादि / हारावली तरलकाञ्चनकाञ्चिदाम____ मञ्जीरकङ्कणमणिद्युतिदीपितस्य / द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य व्रीडावतीमथ सखी निजगाद राधाम् // 5 // अथानन्तरम् इयम् अपरा सखी राधां सखी प्रति गीतेनैव वक्ष्यमाणमित्युवाच / किम्भूतां राधाम् / निकुञ्जनिलयस्य निकुञ्जमन्दिरस्य द्वारे हरिं श्रीकृष्णं निरीक्ष्यावलोक्य व्रीडावतीं लज्जावतीम् / किम्भूतस्य निलयस्य / हारा वलीतरलकाञ्चनकाञ्चिदाममञ्जीरकङ्कणमणिधुतिदीपितस्य / काञ्चनस्य कनकस्य काञ्ची तस्या दाम हारावलीतरलः 'तन्मध्यमणिश्च काञ्चनकाञ्चिदाम चेति / अथवा / हारावलीतरलकाञ्चिदाम चेति / अथवा / हारावलीतरलकाञ्चनकाञ्चिदाममजीरकङ्कणं च / तेषां दीप्तिः / तया दीपितः प्रकाशितः तस्य / विराडी रागे अठताले / मञ्जुतरेत्यादि / मजुतरकुञ्जतलकेलिसदने / विलस रतिरभसहसितवदने // 1 // प्रविश राधे माधवसमीपमिह // ध्रुवपदम् // 1) B स्वर्णनिकषोपलो। 2 ) B drops तमाल....तमम् / 3 ) B drops पुनः...तत्तथा। 4) B drops रुचयो...ताभिः / 5) P केयूर 6)B निकुञ्जनिलयस्य द्वार(रे) मन्दिरस्य द्वारे श्रीकृष्णं निरोक्ष्य ब्रीडावती(ती) लज्जावती(ती)। 7) B तत्मध्यात्मणिश्च कांचनदामेति तेषां दीप्तिस्तया दोपितः प्रकाशितस्तस्य / 8) A विराडीरागे; B विराडीरागेण गीयते एकतालीताले / 9) The mss give this recurring line as the second one.