________________ प्रलोकः 3] गीतगोविन्दकाव्यम् [95 से त्वां पश्यति वेपते पुलकयत्यानन्दति स्विद्यति / प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुजे निकुब्जे प्रियः // 2 // हे सखि स प्रियः निकुञ्ज स्थितः त्वां पश्यति मृगयते / किम्भूते निकुञ्ज। स्थिरतमःपुजे स्थिराणि निबिडानि तमांसि अन्धकाराणि तेषां पुजः समूहो यत्र तत्तथा तस्मिन् / गाढान्धकारसमूह इत्यर्थः। किम्भूतः सन् / चिन्ताकुलः सन् / चिन्तया आकुलो व्यग्रः / कथम् / इति / इतीति कथम् / सा राधा समागत्यागम्य मां द्रक्ष्यति। न केवलं द्रक्ष्यति स्मरकथां कामप्रयुक्तवार्ता वक्ष्यति / न केवलं वक्ष्यति, प्रत्यङ्गमालिङ्गनैः प्रीति यास्यति / अङ्गम् अङ्गं प्रति प्रत्यङ्गम् / न केवलं यास्यति, रंस्यते क्रीडिष्यति / न केवलं रंस्यते, वेपते कम्पते / न केवलं वेपते, पुलकयति रोमाञ्चयुक्तो भवति / न केवलं पुलकयति, आनन्दति हृष्यति / न केवलमानन्दति स्विद्यति स्वेदयुक्तो भवति / न केवलं स्विद्यति, (...प्रत्युद्गच्छति मूर्च्छति च।) . अक्ष्णोरित्यादि / अक्ष्णोनिक्षिपदजनं श्रवणयोस्तापिच्छर्गुच्छावली मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापत्रकम् / धूर्तानामभिसारसंभ्रमजुषां विष्वनिकुब्जे सखि ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमालिङ्गति // 3 // हे सखि इदानीं विश्वव्यापि ध्वान्तं तमः कर्तृ निकुञ्जमध्ये प्रत्यङ्गं सकलाङ्गानि आलिङ्गति उपगृहति / कासाम् / सुदृशां शोभननयनानां नारीणाम् / किम्भूतं ध्वान्तम् / नीलनिचोलचारु नीलश्चासौ निचोलश्चेति तद्वच्चारु मनोहरम् / कथम्भूतानाम् / अभिसारसाहसकृताम् अभिसाराय सङ्केतस्थानगमनाय कृतम् साहसं असमीक्ष्य व्यापारो याभिस्तास्तथा तासाम् / पुनः किम्भूतानाम् / धूर्तानां स्वभर्तृवञ्चिकानाम् / किं कुर्वत् ध्वान्तं प्रत्यङ्गमालिङ्गति / अक्ष्णोर्नयन योरञ्जनं कज्जलं निक्षिपत् इव / तथा श्रवणयोस्तापिच्छगुच्छावली निक्षिपत् / तापिच्छस्य तमालस्य गुच्छाः पुष्पस्तबकाः, तेषामावलिः पङ्क्तिस्ताम् / तथा मूनि मस्तके श्यामसरोजदाम नीलोत्पलमालां निक्षिपत् / तथा कुचयोः कस्तूरिकापत्रकं पत्रावली निक्षिपत् / / काश्मीरेत्यादि। काश्मीरगौरवपुषामभिसारिकाणा माबद्धरेखमभितो रुचिमजरीभिः / 1) P,B दूरं पश्यति / 2) B प्रियसखि प्रियो। 3) B drops चिन्ताकुलः सन् / 4) A,B drop इतीति कथम् / 5) Badds स्मरकथां after केवलं / 6) B क्रीडति / न केवलं वेपते पुलकयति / न केवलं पुलकयति न केवलम् आनन्दयते आनन्दयति स्विद्यति स्वेदयुक्तो भवति। 7) P अक्ष्णोनिःक्षिप। 8) A °गुंछावली; B गुंजावलीं। 3) The reading in the commentary, however, is अभिसारसाहसकृतां /