________________ 94] सटिप्पणकम् [सर्गः 11 किञ्च हे सखि! तवेदं वपुः शरीरम् अधिगतम् अधिशातम् / काभिः / सखीभिः। किम्भूतम् / रतिरणसज्जं रतौ रणः नखप्रहारादिरूपः तस्मै सज्जम् / भूषणादिसन्नाहसंयुक्तम् / ततो हे चण्डि रसितरसनार वडिण्डिमं यथा स्यात् / *सरसं यथा स्यात् / अलज्जं यथा स्यात् / तथा त्वम् अभिसर संकेतशालां गच्छ / रसिता चासौ रसना चेति तस्या रवः स एव डिण्डिमः पटहघोषो यस्मिन् कर्मणि / सह रसेन वर्तत इति / न विद्यते लज्जा यस्मिन् कर्मणि तत्तथा। स्मरशरेत्यादि / स्मरशरसुभगनखेन करेण सखीमवलम्ब्य करेण सलीलम् / नन्वहं एकाकिनी लज्जावती कथं गच्छामि / तदाह / हे राधे ! सलीलं यथा भवति तथा करेण सखीमवलम्ब्य त्वं चल गच्छ। किम्भूतेन करेण / स्मरशर सुभगनखेन / स्मरशरवत् सुभगः सुन्दरोऽतितीक्ष्णो नखो यस्य स तथा तेन / न केवलं चल गच्छ, गत्वा हरिं बोधय उत्थापय / कैः। 1°वलयक्वणितैः वलययोः कङ्कणयोः क्वणितानि रणितानि तैः। किम्भूतम् / 11निजगतिशीलम् / निजा चासौ गतिश्चेति प्रस्थितिः तत्र शीलं स्वभावो यस्य स तथा तम् / 1यदि त्वामतिमानात् कोपेन भ्रामयति यदि अन्यांप्रति याति तर्हि किं करोषि अयमाशयः। श्रीजयदेवेत्यादि / श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् / हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामम् // 8 // 14श्रीजयदेवभणितं गीतम् अविरामं यथा भवति तथा कण्ठतटीम् अधितिष्ठतु वर्तताम् / केषाम् / हरिविनिहितमनसां / हरौ श्रीकृष्णे विनिहितं मनो हारो येन तत्तथा / पुनः किम्भूतम् / 15 उदासितवामं विहितदाक्षिण्यमित्यर्थः / _16इदानीं शीघ्रमागमनायानुकूलार्थं दर्शयति-सा मामित्यादि / सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः / / 1) B drops सखीभिः / 2) B वलि / 3 ) B adds यथा उज्वलं after डिण्डिमं / 4) Bdrops सरसं...यथा स्यात् / 5 ) P सङ्केतनशालं। 6) B यस्मिन् तथा / B drops कर्मणि...तत्तथा। 7) A रतिबोधय; B रधिरोधय। 8) B हरिमिति। 9 ) P सुभगसुदतो अतितीक्ष्णो; B सुभगौ अतितीक्ष्णौ। 10) A adds करैः after क्वणितेः; B reads वलयितकरैः। 11 ) The text, however, reads निगदितशीलम् / 12) P यदि त्वामतिमानात् कोपेन भ्रमते यत् तहिं किं करोषि अयमाशयः ; B drops the whole sentence. 13) B मधितिष्ठति / 14 ) B drops श्री ...अधितिष्ठतु / 15) A उदासितरामम् / उदासिता पृथकूकृता रामा कान्ता येन तत् / यद्वा उदासितवामम् / B उदासितवामम् उदासिता पृथक्कृता वामा कान्ता येन अथवा विहित / 16) B drops this sentence. / 17) A प्रति /