________________ श्लोकः 1] गीतगोविन्दकाव्यम् [93 तस्मिन् / किम्भूते / कुसुमशरासनशासनबन्दिनि 1कुसुमशरान् अस्मिन् क्षिप्यन्ते अस्यन्ते, असु क्षेपणे धातुः, शरासनं कुसुममयं शरासनं धनुर्यस्य स तथा कामः, 'तस्य शासनमाज्ञा तत्र बन्द वैतालिकस्तस्मिन् / 'स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः' इत्यमरः / अनिलतरेत्यादि। अनिलतरलकिसलयनिकरण करेण लतानिकुरुम्बम् / प्रेरणमिव करभोरु करोति गति प्रति मुञ्च "विलम्बम् // 4 // किश्च हे करभोरु / करभवत् ऊरू यस्याः सा करभोरुः, उकारान्तादुः, तस्याः सम्बोधनं हे करभोरु / 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः। त्वं गतिं गमनं प्रति विलम्ब मुञ्च त्यज / यतो लतानिकुरुम्बं वल्लिकदम्बकं प्रेरणमिव करोति / केन कृत्वा / अनिलतरलकिसलयनिकरेण 'करेण अनिलेन तरलानि च तानि किसलयानि च तेषां निकरस्तेन / ननु तत्र गते फलं नास्ति तत्राह स्फुरितमिति / स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम् / पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् // 5 // अमुं 'कुचकुम्भं पृच्छ / किम्भूतम् / स्फुरितम् / कस्मादिव / अनङ्गतरङ्गवशादिव अनङ्गस्य 10मन्मथस्य तरङ्गो भङ्गस्तद्वशादिव। पुनः किम्भूतम् / सूचितहरिपरिरम्भम् / 11हरेः परिरम्भः आलिङ्गनं, सूचितः हरिपरिरम्भो येन स तथा तम् / कुम्भत्वं दर्शयति / पुनः किम्भूतम् / मनोहरहारविमलजलधारम् / 1मनोहरश्चासौ हारो मुक्ताहारश्चेति स एवातितेजनत्वात्तं, विमलं जलं तद्धरतीति स तथा तम् / अथवा मनोहर हार एव विमलजलस्य धारा यस्मिन् स तथा तम् / अधिगतमित्यादि। अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् / चण्डि रसितरसनारंवडिण्डिममभिसर सरसमलज्जम् // 6 // 1) A कुसुमशरान् अस्यन्ते क्षिप्यन्ते अनेनेति कुसुमशरासनम् ; B drops from कुसुमशरान् to धातुः, शरासनम् / 2) A तस्य शासनमाज्ञायां वैदी; B तस्य शासने आज्ञायां बन्दि / 3) A असु क्षेपणे धातुः। बंदिनः स्तुतिपाठका इत्यमरः; B drops from स्युर्मागधा to इत्यमरः / 4) A adds मुग्धे // after विलम्बम् / 5)P and B drop उकारान्तादुः / 6) B drops मणि....त्यमरः / 7) B drops करेण। 8 ) B drops ननु...तत्राह / 9) A adds मुग्धे / / after कुचकुम्भम् // 10 ) B drops मन्मथस्य / 11) A हरेः परिरम्भः आलिङ्गनम् / B सूचितहरेः परिरम्भो येन स तथा तम्। 12 ) A मनोहरश्चासौ मुक्ताहारश्च स एवाचेतनत्वात् विमलं जलं तद्धरतीति सस्तम् ; B मनोहरहार एव विमलजलधारा यस्मिन् स तथा तम् / 13) B वलि /