________________ 92] सटिप्पणकम् [ सर्गः 11 पुनः किम्भूतम् / विरचितचाटुवचनरचनं विरचिता कृता चाटुवचनस्य रचना येन स तथा तम् / पुनः किंविशिष्टम् / रचितप्रणिपातं रचितः प्रणिपातो दण्डप्रणामो येन स तथा तम् / कस्मिन् / चरणे पुनः किम्भूतम् / संप्रति इदानीम्। अनुयातम् उपयातम् / किम् / केलिशयनं केल्यर्थं शयनं च तत् / कस्मिन् / मञ्जुलवजुलसीमनि मञ्जुलाः शोभमानाश्च वज़ुलाश्च तेषां सीमावधिः तस्मिन् , वानीरकुञ्जमध्य इत्यर्थः / / कथमनुस्मरामि तत्राह धनजघनेति घनजघनस्तनभारभरे दरमन्थरचरणविहारम् / मुखरितमणिमजीरमुपैहि विधेहि मरालविकारम् // 2 // हे घनजघनस्तनभारभरे दरमन्थरचरणविहारं यथा स्यात्तथा उपैहि समीपं गच्छ / जघनं च स्तनौ च घनं निबिडभूतं तज्जघनस्तनं च तस्य भारः अतिशयगुरुत्वं तस्य भरो धरणं यया सा तथा, तस्याः संबोधनम् / दर ईषन्मन्थरो मन्दीभूतश्चरणविहारः पदोपन्यासो यस्मिन् कर्मणि तत्तथा स्यात् / पुनः कथं यथा स्यात् / मुखरितमणिमञ्जीरं यथा स्यात्तथा मणिभिः रत्नैः उपेतौ 'रचितौ मञ्जीरा मुखरितौ श्रवन्तौ मणिमञ्जीरौ यस्मिन्कर्मणि तक्रियाविशेषणम् / अथानन्तरं गमने विशेषमाह / त्वं मरालविकारं विधेहि 1°कुरु मरालानां राजहंसानां विकार इव विकारो गतिविशेषणम् / हंसगत्या गच्छेत्यर्थः। 11अथवा / मरालनिकारं मरालानां हंसानां निकारस्तिरस्कारः हंसगतेरपि सुन्दरगत्या याहीत्यर्थः। ननु कामो निवृत्तः किमिति यामीति / तत्र कामोद्बोधहेतुमाह शृण्विति / शृणु रमणीयतरं तरुणीजनमोहनमधुपविरावम् / कुसुमशरासनशासनवन्दिनि पिकनिकरे भज भावम् // 3 // 1हे राधे त्वं शृणु / तरुणीजनमोहनमधुपविरावं तरुणीजनानां मोहनो 15मधुपानां अलीनां विरावो ध्वनिः तरुणीजनमोहनश्चासौ मधुपविरावश्चेति / तत् किम्भूतम् / रमणीयतरं अतिशयेन रमणीयो रमणीयतरः तम् / तथा त्वं भावं भज चित्तं 14विधेहि / कस्मिन् / पिकनिकरे / पिकानां कोकिलानां निकरः समूहः 1) B drops कृता / 2) B उपयात(म् ) अनुगतम् / 3) drops this line. 4) P दरः। B दर इषत्मदो चरणोविहारः (? ईषन्मन्थरो ईषन्मन्दः चरणविहारः)। 5) A यत्र यस्यां क्रियायां तत् / 6) B drops कथं यथा स्यात् / 7) B drops रचितौ / 8) B drops रवन्तौ / 9 ) A यत्र यस्यां तत् ; B यस्मिन् कर्मणि [तत् ] तथा / 10) P drops कुरु। 11) B drops from अथवा to याहीत्यर्थः / 12) P हे त्वं शृणु / 13) B drops from मधुपानां to मोहनश्चासौ। 14 ) A,B देहि /