________________ एकादशः सर्गः सानन्ददामोदरः। सुचिरमित्यादि। सुचिरमनुनयेन प्रीणयित्वा मृगाक्षी गतवति कृतवेशे केशवे कुब्जशय्याम् / रैचितरुचिरभूषां दृष्टिमोषे प्रदोषे "स्फुरति “निरवसादां कापि राधां जगाद // 1 // प्रलोकेन गीतं प्रदर्शयति / कापि सखी राधां प्रति जगाद ऊचे। किम्भूताम् / रचितरुचिरभूषां रचिता रुचिरा रमणीया भूषा अलङ्कारः भूषणं यस्याः सा तथा ताम् / पुनः कथम्भूताम् / निरवसादां 'निर्यातो निर्गतोऽवसादो यस्याः सा तथा ताम् / कस्मिन् समये / प्रदोषे रजनीमुखे / कथम्भूते / स्फुरति / पुनः किम्भूते / दृष्टिमोषे 11दृष्टिं मुष्णातीति यस्मिन् तत्तथा तस्मिन् निबिडान्धकारिणि / कस्मिन् सति / केशवे श्रीकृष्णे कु.शय्यां गतवति सति / कुञ्ज निकुञ्ज शय्या ताम् / 1किम्भूते केशवे / कृतवेशे कृतः वेशो येन स तथा तस्मिन् / किं कृत्वा / सुचिरं चिरकालम् अनुनयेन परिसान्त्वनेन मृगाक्षी मृगलोचनां प्रीणयित्वा संतोष्येत्यर्थः / 13वसन्तरागे यतिताले / विरचितेत्यादि। विरचितचाटुवचनरचनं चरणे रचितपणिपातम् / संपति मजुलवजुलसीमनि केलिशयनमैनुयातम् // 1 // मुग्धे मधुमथनमनुगतमनुसर राधिके // ध्रुवपदम्"॥ हे 18 राधे मुग्धे 1°सदानभिज्ञे मधुमथनं श्रीकृष्णम् अनुसर गच्छ / तस्या11नुकूलाःभव / किम्भूतम् / अनुगतम् अनुसारिणम् / अनुसारित्वं दर्शयति 1) A सानन्दगोविन्दः। B सानन्दो दामोदरः। 2 ) B रुचित / 3 ) B स्फुरन्ति / 4) निवसादां / 5 ) B किम्भूतौ / 6) A किम् / B किम्भूताम् / 7) A,B drop निर्यातो। 8) Badds विषादो after अवसादो। 9) A क्व। 10) B drops पुनः। 11) A दृष्टिं मुष्णातीति तस्मिन् ; B drops from दृष्टिं to तस्मिन् / 12) B कथम्भूते / 13) A वसन्तरागे। B वसन्तरागे / गीयते रूपकताले / अत्रापि अभिसारिकैव नायिका / 14 ) B चरणौ। 15 ) A मनुजातम् / 16) P मनुसर। 17) B °मिदम् / 18) B drops राधे। 19 ) B drops सदानभिज्ञे / 20 ) B_drops श्रीकृष्णं / 21 ) B नुक्तमाला च। 22 ) B drops from अनु to दर्शयति /