________________ 90] सटिप्पणकम् [सर्गः 10 रतिस्तव कलावती रुचिरचित्रलेखे भ्रवावहो विबुधयौवतं वहसि तन्वि पृथ्वीगता // 6 // इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः॥ हे तन्धि / अहो आश्चर्यम् / पृथ्वीगतापि त्वं वहसि / किम् / विबुधयौवतं युवतीनां समूहं यौवतं विबुधानां यौवतं देवस्त्रीसमूहमित्यर्थः। शब्दच्छलेन मदालसादिवृन्दमेवोपपादयति / तव दृशौ मदालसे मदेन अलसे मन्दे ईषन्मुद्रितलोचन इत्यर्थः। तथा ते वदनं इन्दुसन्निभम् इन्दुना चन्द्रेण संनिभं सदृशम् / अनेन इन्दुमती सूचयति / तथा ते गतिर्जनमनोरमा जनानां मनो रमयते आह्लादयति अर्थान्मादृशानामपि / तथा ते ऊरुद्वयं विधुतरम्भं विधुता तिरस्कृता रम्भा कदली येन तत्तथा, निन्दितकदलीस्तम्भमित्यर्थः। तथा तव मतिः [? रतिः] कलावती। कलाः चतुःषष्टिकामकला विद्यन्ते यस्याः सा तथा / तथा च ते ध्रुवौ चित्रलेखे / रुचिरं सुन्दरं च तत् / चित्रं च विचित्रं तस्य लेखेव / अथवा रुचिरे सुन्दरे चित्रे विस्मयनीये लेखे ययोस्तत्तथा / 'वृत्तमपि पृथ्वी। चतुरचतुर्भुजो यस्मिन् / इति श्रीगीतगोविन्दटीकायां मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः। 1) B drops वृत्तमपि to यस्मिन् /