________________ 88 सटिप्पणकम् [ सर्गः 10 अक्षरविपर्यया भवति स्वरे परे / न अजः अनजः।) तस्मिन् / किम्भूते सति / त्वया राधिकयाक्रान्ते व्याप्ते सति / किम्भूतया त्वया / घनस्तनजघनया। स्तनौ च जघने च स्तनजघने / घने निबिडे निरन्तरे स्तनजघने यस्याः सा तया / अतः कारणात् विधेहि कुरु / काम् / विधेयताम् / विधेयो दासः तस्य भावस्ताम् / 'तत्वौ भावे तप्रत्ययः। (कातन्त्र // 502 // भावेऽमिधेये तत्वौ भवतः। शब्दस्य प्रवृत्तिनिमित्तं भावो भवति / तप्रत्ययस्य नपुंसके वृत्तिः, पटस्य भावः पटता, पटत्वम्।) विधेयो विनयग्राही वचने स्थित आश्रव इत्यमरः। अथवा विधेयतां कर्तव्यतां करणीयं स्त्रीपुरुषसंयोगप्रयोजनम् / कस्मिन् विषये / स्तनभरपरीरम्भारम्भे। स्तनयोर्भरः अतिशयः विपुलत्वम् तस्य परोरम्भः गाढालिङ्गनं तस्यारम्भः उपक्रमः तस्मिन् / मुग्धे इत्यादि। मुग्धे विधेहि मयि निर्दयदन्तदंश दोर्वल्लिबन्धनिबिडस्तनपीडनानि / चण्डि त्वमेव मुंदमाप्नुहि पञ्चबाण चण्डालकाण्डदलनादसवः प्रयान्तु // 3 // हे मुग्धे अविवेकिनि। विधेहि कुरु / कानि / निर्दयदन्तदंशदोर्वल्लिबन्धनिबिडस्तनपीडनानि / दन्तैर्दशनम् , दोर्वल्लिभ्यां बन्धः बाहुद्वयबन्धः बाहुद्वय. बन्धनमू, निबिडं निर्भरं गाढं यथा स्यात्तथा स्तनाभ्यां पीडनम् अवगाहनं बाधनम्, दन्तदंशश्च दोर्वल्लिबन्धश्च निबिडस्तनपीडनं च / निर्दयं दयारहितं यथा भवति तथा दन्तदंशदोर्वल्लिबन्धनिबिडस्तनपीडनानि / किमिति करवाणि तत्राह / हे चण्डि अत्यन्तकोपिनि / त्वमेव मदं क्रोधं मुञ्च। दन्तदंशादिना किं फलम् / तदाह / ममासवः प्राणा: प्रयान्तु / गच्छन्तु। कस्मात् / पञ्चबाणचण्डालकाण्ड दलनात् पञ्च बाणा यस्य स पञ्चबाणो मदनः, स एव चण्डालो निर्दयत्वात् , तस्य काण्डं बाणः तस्य दलनं मेदनं तस्मात् / व्यथयतीत्यादि / व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं तरुणि मधुरालापैस्तापं विनोदय दृष्टिभिः / सुमुखि विमुखीभावं तावद्विमुञ्च न मुञ्च मां स्वयमतिशयस्निग्धो मुग्धे प्रियोऽहमुपस्थितः॥४॥ 1) B drops from विधेयो to इत्यमरः / 2) P आश्रय इत्यमरः; A आश्रयः इत्यमरः। 3) A यद्वा / 4) A क्व विषये। 5) B मुदमुबह / 6) The text reads मुदमाप्नुहि / The expected gloss on this shourd be something like मुदमानन्दम् आप्नुहि प्राप्नुहि /