________________ श्लोकः 2] गीतगोविन्दकाव्यम् [87 दुःखे। तथा लौहितमेदे (? 'भेदयोः)॥ अनेकार्थः। अथवा कोपश्चेत्तर्हि मस्तके पादप्रहारानन्तरं मानभङ्गः स्यात् / तस्मात् कुरु / इतिचटुलेत्यादि / इति चटुलचाटुपटुचारु मुरवैरिणो राधिकामधि वचनजातम् / जयतु जयदेवकविभारतीभूषितं मानिनीजनजनितशातम् // 8 // इति गीतं जयतु / सर्वोत्कृष्टतया वर्तताम् / किम्भूतम् / पद्मावतीरमणजयदेवकविभारतीभणितम् / पद्मावत्याः रमणो नाथः स चासौ जयदेवश्चेति तस्य भारती वाणी तया भणितम् उक्तम् / इतीति किम् / मुरवैरिणो मुरारेः श्रीकृष्णस्य राधिकामधिकृत्य वचनजातं भूतम् / उक्तप्रकारेण / किम्भूतम् / चटुलचाटु चटुलं प्रियवाक्ययुक्तम् / चाटु प्रीतिकरम् / पुनः किम्भूतम् / पटु चतुरं कार्यसाधनसमर्थम् / पुनः किम्भूतम् / चारु रमणीयं मनोज्ञमित्यर्थः / अथवा वचनजातं समूहे इति / किम्भूतम् / अतिशान्तं अतिशयेन शान्तमित्यर्थः। 'दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दिते' इत्यमरः / अथवा 'पाठान्तरम् / जयति जयदेवकविभारतीभूषितं मानिनीजनजनितशातम् / भारत्या भूषितमलङ्कृतमित्यर्थः। मानिनीजनितं शातं सुखं येन तत्तथा / परिहरेत्यादिः / परिहर कृतातङ्के शङ्कां त्वया सततं धन __ स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनि / विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं स्तनभरपरीरम्भारम्भे विधेहि विधेयताम् // 2 // __ हे कृतातङ्के कृता10 आतङ्का शङ्का यया सातथा तस्याः सम्बोधनम् / त्वं शङ्कां परिहर त्यज / यतः वितनोः कन्दर्पात् 11विगतशरीरात् , अन्यः कोऽपि स्त्रीजनः धन्योऽपि रमणीयोऽपि ममान्तरं अन्तः करणं न विशति न प्रवेशं करोति / कस्मिन् सति / स्वान्ते हृदये परानवकाशिनि परस्य नास्ति अवकाशः प्रवेशो यस्मिन् तत्तथा। 12 स्वरेऽक्षरविपर्ययः / (कातन्त्र // 463 // तत्पुरुष समासे नस्य 1) A राधिकावचनधिजातम् / 2) A जयति पद्मावतीरमणजयदेवकविभारतीभणितमितिः गीतम् / B जयति पद्मावतीरमणजयदेव कविभारतीभणितमिति शान्तम् / 3) A जयति / सर्वोत्कृष्टतया वर्तस्व। B जयति सर्वोत्कर्षेण वर्तते। 4) B पद्मावतीरमणो भर्ता स चासौ जयदेवकविश्चति / 5) A चटुलं प्रियाजाडययुक्तम् / 6) B drops दान्तस्तु to इत्यमरः / 7) B इत्यपि पाठः। 8) B शान्तं / 9) A,B प्रणयिनि परिरम्भारम्भे / 10 ) B कृतः आतंको भयः। 11 ) B drops विगतशरीरात् / 12) B drops स्वरेऽक्षरविपर्यः /