________________ 26] सटिप्पणकम् [सर्गः 10 करोतु / कस्मिन् स्थाने / घनजघनमण्डले घनं निबिडं च जघनमण्डलं चेति तस्मिन् / न केवलं रसतु मन्मथनिदेशं कामाज्ञां च घोषयतु श्रावयतु / मण्डनानां प्रयोजनं सार्थकं भवतु। स्थलेत्यादि / स्थलकमलगजन मम हृदयरञ्जनं जनितरतिरङ्गपरभागम् / भण मसणवाणि करवाणि चरणद्वयं सरसलसदलक्तकरागम् // 6 // हे मसृणवाणि। मसृणा कोमला स्निग्धा वाणी यस्याः सा तथा, तस्याः सम्बोधनं हे मसृणवाणि / त्वं भण ब्रूहि / तव पदपङ्कजं चरणारविन्दद्वयं सरसलसदलक्तकरागम् अहं करवाणि। रसेन सह वर्तत इति सरसः स चासौ लसच्च अलक्तकस्य लाक्षारसस्य रागो द्रवगुणो यस्मिन् तत्तथा तत् / किम्भूतं चरणद्वयम् / स्थलकमलगञ्जनम् / स्थले भूमौ यत्कमलं तद्गञ्जयतीति तथा तत् / पुनः किम्भूतम् / मम हृदयरञ्जनं हृदयं रञ्जयति "हादयतीति तत्तथा। पुनः किम्भूतम् / जनितरतिरङ्गपरभागं जनितः उत्पादितः रतिरङ्गे सुरतसङ्कामभूमौ परभागः शोभाभावो गुणोत्कर्षों यत्र तत्तस्मिन् तत्तथा / स्मरेत्यादि / स्मरगरलखण्डनं मम शिरसि मण्डनं देहि पदपल्लवमुदारम् / ज्वलति मयि दारुणो मदनकदारुणो हरतु तदुपाहितविकारम् // 7 // हे प्रिये उदारं सुन्दरं पदपल्लवं देहि / किम्भूतम् / मम शिरसि मण्डनं भूषणम् / किम्भूतम् / स्मरगरलखण्डनं स्मर एव गरलं विषं तत्खण्डयतीति 10तत् / अधुना तिष्ठतु पश्चाद्दास्यामि तत्राह / मयि ज्वलति मदनकदनारुणः मदनेन कदनं बाणप्रहारपीडाजनितदःखसन्तापः तदेव अरुणः सविता स तथा। पुनः किम्भूतः / दारुणो भयानकः / तर्हि पदं किं करिष्यति / तत्राह / तव पदपल्लवं हरतु / कम् / 11तदुपाहितविकारम् / तेन मदनकदनारुणेन 13 उपाहितः उत्पादितः स चासौ विकारश्चेति तम् / अपरमपि पल्लवाच्छादितं यच्छिरः तत्र सूर्यतापो न प्रभवति / 18अरुणो स्फुटरागे स्यात् / सूर्ये सूर्यस्य सारथौ // कन्दर्पबाणजे ___ 1 [न ] केवलं रसतु / मन्मथनिदेशम् आज्ञापयतु। श्रावयतु / ... 2) A पदपङ्कजं / 3) A,B गलद। 4) A चिकणा / 5) A चरणद्वन्द्वं; B चरणद्वयं / 6) A,B drop चरणारविन्दद्वयं / 7) A,B आह्वादयतीति / 8B नानलो। 9) A,B तदुपहित / 10 ) B drops from तत् to दास्यामि / 11) A,B तदुपहित। [2) A उपहितः 13) B drops from अरुणो to अनेकार्थः /