________________ प्रलोकः 5] गीतगोविन्दकाव्यम् [85 दन्तेन खण्डनं तत् / येन वा भवति सुखजातं वा अथवा, येन प्रकारेण सुखजातं सुखस्य जन्म भवति / वैरशुद्धिर्भवतु / क्रोधमपनय / प्रसन्ना भव / मामवलोकय इत्यर्थः। त्वमसीत्यादि / त्वमसि मम भूषणं त्वमसि मम जीवनं त्वमसि मम भव भवजलधिरत्नम् / भवतु भवतीह मयि सततमनुरोधिनी तत्र मम हृदयमतियत्नम् // 3 // हे प्रिये / त्वं मम भूषणमसि / न केवलं भूषणं त्वं मम जीवनं प्राणधारणमसि / न केवलं जीवनं मम त्वं मम भवजलधिरत्नमसि / भव एव जलधिः समुद्रः तत्र जातं रत्नमिव / सर्वासां संसारस्थितस्त्रीणां त्वं रूपवती रत्नभूतासि। जातौ जातौ यदुत्कृष्टं तद्धि रत्नं प्रचक्षते / इहास्मिन्मयि विषये सततमनवरतं भवती त्वम् अनुरोधिनी अनुसारिणी भवतु / किमर्थम् / तत्राह / अत्र अनुरोधविषये मम हृदयम् अतियत्नं वर्तते / अतिशयेन यत्नः प्रयत्नो यस्य तत्तथा / नीलनलिनेत्यादि। नीलनलिनाभमपि तन्वि तव लोचनं धारयति कोकनदरूपम् / कुसुमशरबाणभावेन यदि रञ्जयसि कृष्णमिदमेतदनुरूपम् // 4 // हे तन्वि तवेदं लोचनं नीलनलिनाभं नीलोत्पलसदृशमपि कोकनदरूपं रक्तात्पलरूपं धारयति / यदि इदं लोचनं कृष्णं रञ्जयसि अनुरक्तं करोषि / केन / कुसुमशरबाणभावेन कुसुमशरः कामः तस्य बाणभावेन / तदा एतद्रूपम् उचितम् अनुरूपं भवति / यदि व्यथयसि तदा न भवति / स्फुरत्वित्यादि / स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी रञ्जयतु तव हृदयदेशम् / रसतु रसनापि तव घनजघनमण्डले घोषयतु मन्मथनिदेशम् // 5 // हे कान्ते तव कुचकुम्भयोरुपरि मणिमञ्जरी मणीनां मारी माला स्फुरतु भवतु / तव हृदयदेशं रञ्जयतु अलङ्करोतु / तथा 'रसना मेखलापि रसतु शब्दं 1) A भवेति तात्पर्यम् / 2) B add मम after रूपवती। 3) B drops from जातौ to प्रचक्ष्यते। 4 ) B कृष्णमेतदनुरूपम् / 5) A यदिदं लोचन कृष्णं मां रज्जयति अनुरक्तं करोति / B यदि इदं कृष्णं लोचनं मां रज्जयतु अनुरक्तं करोतु। 6) A मणीनां रत्नानां मञ्जरी माला; B मणीनां रत्नानां माला / 7) A रसना कटिमेखलापि /