________________ 84] सटिप्पणकम् [सर्गः 10 प्रिये चारुशीले मुश्च मयि मानमनिदानम् / सपदि मदनानलो दहति मम मानसं देहि मुखकमलमधुपानम् // ध्रुवपदम् // हे 1प्रिये राधे मयि मद्विषये मानमभिमानं मुञ्च / त्यज / किम्भूतम् / अनिदानम् / नास्ति निदानं कारणं यस्य स तथा तम् / अहेतुकमित्यर्थः / किम्भूते / हे चारुशीले। चारुः मनोज्ञं शोभनं शीलं स्वभावो यस्याः सा तस्याः सम्बोधनम् / न केवलं मानं मुञ्च / मुखकमलमधुपानं देहि / मुखमेव कमलं तस्य मधु मकरन्दः पुष्परसः तस्य पानम् किमर्थम् / सपदि इदानीं मदनानलः 'कन्दग्निः मम मानसं चेतो दहति / मदनस्यानलः मदनानलः विरहाग्निरित्यर्थः / किञ्च / यदि किञ्चिदपि वदसि भाषसे / तर्हि दरतिमिरं हरति विनाशयति दरो भीतिः स एव तिमिरं तत् / का। तव दन्तरुचिकामुदी दन्तानां रुचिर्दीप्तिः सैव कौमुदी चन्द्रिका। कथंभूतं तिमिरम् / अतिघोरम् अत्युग्रं भयानकम् / किञ्च / तव वदनचन्द्रमाः मे मम लोचनचकोरं रोचयतु तृप्तिं नयतु / लोचनमेव चकोरः पक्षिविशेषः तम् / किमर्थं कस्मै / स्फुरदधरसीधवे। अधरस्य सीधुः अधररसामृतम् / स्फुरच्चासा अधरसीधुश्चेति तस्मै रुच्यर्थे चतुर्थी / ननु कृतागसि मयि किमप्युपकारादिकं न करोषीत्याशङ्किते तर्हि अपकारमेवाप्येतादृशं कुरुष्वेत्याह / सत्यमेवासीत्यादि। सत्यमेवासि यदि सुदति मयि कोपिनी देहि खरनयनशरघातम् / घटय भुजबन्धनं जनय रदखण्डनं येन वा भवति सुखजातम् // 2 // हे 13सुदति / शोभना दन्ता यस्याः सा सुदती, तस्याः संबोधने हे सुदति। दन्तस्य दद् बहुब्रीहौ। सत्यमेव यदि मयि विषये कोपिन्यसि क्रोधयुक्तासि / तर्हि 13खरनयनशरघातं देहि / नयनमेव शरः तस्य घातः प्रहारः। खरः तीक्ष्णः / शाणोत्तीर्ण इव नयनशरः तस्य घातस्तम् / कटाक्षबाणप्रहारमित्यर्थः। तथा भुजबन्धनं घटय / भुजाभ्यां वन्धनम् / तथा रदखण्डन जनय उत्पादय / रदेन 1) B राधे प्रिये / 2 ) B मयि विषये मानं मुञ्च / 3) A मुञ्च / जहिहि / त्यज / 4) B आदिकारणं / 5) B मनोहरः शीलः / 6) B मुखकमलस्य मधु / 7) B कन्दर्पः / 8) Bdrops मदनस्यानल: मदनानलः। 9) Bdrops रुच्यर्थे चतुर्थी। 10) P त्याशय; B त्याशङ्कते। 11) A,B नखर / 12) A सुदति राधे सत्यमेव....; B सुदति शोभना दन्ता यस्याः सा सम्बोधने / सत्यमेव...। 13) A खरास्तीक्ष्णा नखरा नखास्त एव शरास्तेषां घातं देहि / तथा भुजाभ्यां बन्धनं घटय / रदेन दन्तेन खण्डनं जनय उत्पादय / येन वा प्रकारेण; B खरनखरशरघातं देहि / खरनखरा एव शरास्तेषां शरघातः प्रहारः खरः तीक्ष्णः शाणोत्तीर्ण इव नयनशरस्तस्य घातस्तम् /