________________ दशमः सर्गः। XX चतुरचतुर्भुजः / अत्रान्तरेत्यादि। अंत्रान्तरे मसणशेषवशादसीमनिःश्वासनिःसहःमुखीं सुमुखीमुपेत्य / सबीडमीक्षितसखीवदनां दिनान्ते सानन्दगद्गदपदं हरिरित्युवाच // 1 // - अत्रान्तरे इत्यादिना वक्ष्यमाणस्य सम्वन्धं प्रलोकेनाह / नारायणः अत्रान्तरे अस्मिन् समये सानन्दं गद्दपदं यथा स्यात्तथाग्रे वक्ष्यमाणम् उवाच / आनन्देन सह वर्तते इति सानन्दं गद्दपदं यस्मिन् तत्तथा तस्मिन् तत् / किं कृत्वा / दिनान्ते सायं सन्ध्यासमये राधामुपेत्य समीपं गत्वा। काम् / सुमुखी सुष्टु शोभनं मुखं यस्याः सा तथा ताम् / किम्भूताम् / सवीडं सलज्जं यथा स्यात्तथा ईक्षितसखीवदनाम् / ईक्षितमवलोकितं सखीवदनं मुखं यया सा ताम् / किस्मात् / मसूणरोषवशात् / मसणश्चासौ रोषश्चेति तस्य वशः तस्मात् / पुनः किम्भूताम् / असीमनिःश्वासनिःसहमुखीम्। असीमः अतिदीर्घायामश्चासौ निःश्वासश्चेति तेन निःसहं मुखं यस्याः सा ताम् / अथवा हरिपक्षे / सबीडं 'सलज्जम् ईक्षितसखीवदनम् एवं विशिष्टा चेदियं सख्या कृतप्रसादा मम वचनतोष्या भविष्यतीत्यानन्दकारणं यथा स्यात्तथा। केशवोऽपि प्रियवचसा मम मानखण्डनं करोतीति राधिका स्वगतं मत्वा सलज्जं यथा स्यात्तथा किमुवाचेत्याह। देशीयवराडीरागे अठतालताले / वदसि यदीत्यादि। वदसि यदि किश्चिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् / स्फुरदधरसीधवे तव बदनचन्द्रमा रोचयतु लोचनचकोरम् // 1 // 1) A adds the sentence 'वक्ष्यमाणसंबन्धं श्लोकेनाह / ' before अत्रान्तरे / 2) A अथानन्तरं तत्तस्मिन्नर्थे सानन्दगद्गदपदं तथा स्यात्तथाग्रे वक्ष्यमाणमुवाच / 3) P रात्रावुपेत्य / 4) A सख्या वदनं; B सख्या वदनं यस्याः सा ताम् / 5)B drops from कस्मात् किमुवाचेत्याह। 6) A अतिदीर्घ चासौ निःश्वास चेति / 7) A drops सलज्जम् / 8,P भविष्यतीति सानन्दकारणं / 9) A ललितरागण गीयते B रामकरावराडीरागेण गीयते /