________________ 82] सटिप्पणकम् [सर्गः 9 हरिरित्यादि / हेरिरुपयातु वदतु बहु मधुरम् / किमिति करोषि हृदयमतिविधुरम् // 7 // 'हरिरुपयातु हरिः समीपं गच्छतु यातु / बहु अनेकप्रकारं यथा स्यात्तथा मधुरं कोमलवचनं वदतु / हृदयमतिविधुरं दुःखितं किमिति करोषि / नैतत् कर्तव्यम् / तव सपत्नीजनः सकामो भविष्यतीति ज्ञात्वा.माधवं भजस्व / श्रीजयदेवेत्यादि / श्रीजयदेवभणितमतिललितम् / सुखयतु रसिकजनं हरिचरितम् // 8 // श्रीजयदेवणितं हरिचरितं सुखयतु सुखिनं करोतु / कम् / रसिकजनं रसिकश्चासौ जनश्चेति तम् / किम्भूतं हरिचरितम् / अतिललितम् अतिशयेन रुचिरं "सुन्दमित्यर्थः / स्ववचनाकरणैः कुपिता 'सती राधिका प्रति पुनराह / स्निग्धेत्यादि। स्निग्धे यत्परुषासि यत्पणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन् प्रिये / युक्तं तत् विपरीतकारिणि तव श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः // 2 // इति श्रीगीतगोविन्दे कलहान्तरितावर्णने मुग्धमुकुन्दो नाम नवमः सर्गः। हे विपरीतकारिणि / विपरीतं प्रतिकूलं कर्तुं शीलं स्वभावो यस्याः सा तस्याः संबोधने हे विपरीतकारिणि राधे। विपरीतकारित्वं कथं त्वया ज्ञातम् / यद्यस्मात्कारणात् तस्मिन् प्रिये श्रीकृष्णे स्निग्धे स्नेहं कुर्वति सति त्वं परुषासि निष्ठुरभाषिण्यसि / तथा च तस्मिन् प्रणमति नमस्कुर्वति सति त्वं स्तब्धासि / अनघ्रासि / मूकीभूतासि / तथा च यद्यस्मात्तस्मिन् रागिणि प्रीतिं कुर्वति सति त्वं द्वेषस्थासि अप्रीतिकारिण्यसि / यद्यस्मात् तस्मिन् उन्मुखे सति त्वं विमुखतां असन्मुखतां यातासि गच्छसि। तत्तस्मात् कारणात् तव एवं युक्तम् / एवं कथम् / श्रीखण्डचर्चा चन्दनलेपः विषं विषवत्संतापयति / तथा शीतांशुश्चन्द्रमाः तपनः सूर्यः। तथाहि हिमं शीतलं हुतवहः अग्निवत् / क्रीडामुदः क्रीडासुखानि यातनाः वेदनाः। सर्वेषां उचितपदीपन्यासः। एतत्सर्व युक्तमेव / प्रियेऽनुकूले तव विपरीतकारित्वात् / 1°मुग्धः मुकुन्दो यस्मिन् सः / इति श्रीगीतगोविन्दटीकायां कलहान्तरितावर्णने मुग्धमुकुन्दो नाम नवमः सर्गः। 1) B हरिमुपयातु / 2) A तवोप समीपे कुञ्जमध्यं हरिर्यातु। B तव समीपे कुञ्जमध्ये हरिर्यातु / 3 ) तव सम्यक् भजनेन सकामो... / 4) P सपत्नजनः। 5) B ललितं रुचिरम् / 6) B drops from सुन्दर to पुनराह / 7) A सती सखी। 8) तद्युक्तं / 9) B कथमनेनैव ज्ञातम् / 10 ) A,B मन्दः / 11) A,B मन्धमुकुन्दो /