________________ श्लोकः 2] गीतगोविन्दकाव्यम् [79 खण्डितयुवतिविलापम् / रितिवञ्चिता खण्डिता चासा युवतिश्चेति राधा। तस्याः विलापः परिदेवनम् / श्रीजयदेवभणितं च रतिवञ्चितस्त्रण्डितयुवति विलापश्चेति / तम् / किम्भूतम् / सुधामधुरं सुधावन्मधुरस्तम् / श्रवणसाख्यकरम् / गीतं संक्षिप्याह / तवेदमित्यादि / 'तवेदं पश्यन्त्याः प्रसरदनुराग बहिरिव प्रियापादालक्तच्छुरितमरुणच्छीयहृदयम् / ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जां जनयति // 2 // इति श्रीगीतगोविन्दे खण्डितावर्णने विलक्षलक्ष्मीपति म अष्टमः सर्गः / राधा वदति / हे कितव धूर्त कपटिन् त्वदालोकः तवेदृशस्य विकृतं दर्शनं ममाद्य किमप्यनिर्वचनीयं यथा स्यात्तथा लज्जां जनयति / न केवलं त्वदालोकः स्वरूपेण लज्जां जनयति / शोकादपि / न केवलं शोको लोकनादपि प्रख्यातप्रणयभरभङ्गेनापि प्रणयस्य प्रीतेः भरः आधिक्यं तस्य भङ्गः नाशः प्रख्यातश्चासौ प्रणयभरभङ्गश्चेति तेन / किम्भूतायाः मम / 'तवेदं अरुणच्छायं हृदयं पश्यन्त्याः / अरुणच्छायं शोणकान्ति / किम्भूतम् / प्रियापादालक्तच्छुरितं 1°प्रियायाः वल्लभायाः पादस्तस्य अलक्तकस्तेन छुरितं युक्तम् / किम्भूतमिव / 11अन्तः अभ्यन्तरे स्थितं बहिः प्रसरदनुरागमिव / प्रसरदनुरागो यस्मात्तत्तथा। विरुद्धतया लक्षित इति विलक्षः एवंभूतो लक्ष्मीपतिः वर्णितो यत्रेति / इति श्रीगीतगोविन्दटीकायां खण्डितावर्णने विलक्षलक्ष्मीपति म अष्टमः सर्गः / 1) A drops from रति to विलापश्चेति / तम् / but adds सुगममेतत् / 2) B drops राधा / 3 ) B drops सुधामधुरम् / 4) A drops this line; B adds it at the opening of the next verse 1 5 ) A,B तदेवं / 6 ) A,B °द्योति 7) A leaves out the words after ar*: in the verse and the words before त्वदालोकः स्वरूपेण in the gloss / 8 ) B drops राधा वदति / 9) Badds प्रणयभरभङ्गनिश्चयः कथं तदाह / bofore तवेदं। 10) B drops from प्रियायाः to युक्तम् / 11) A अन्तरेऽभ्यन्तरे; B drops अन्तः /