________________ 78] सटिप्पणकम् [सर्गः 8 दशनेत्यादि / दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् / . कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् // 5 // किञ्च / हे माधव / दशनपदं दयितायाः दन्ताघातस्थानम् 3 खेदं जनयति दुःखं रचयति / किम्भूतम् / भवदधरगतं भवतः अधरः ओष्ठः तत्र गतं वर्तमानमित्यर्थः / कस्याः / मम / आवयोरभेदभावस्तत्राह / अधुना इदानीमपि तव वपुः शरी मया सह अभेदम् एकत्वं कथयति दर्शयति। किम्भूतं वपुरेतत् एतादृशं विकृतम् / तव वपुरेवंभूतं विकृतं विकारयुक्तम् / तस्मादधुनापि मया सह अभेदं कथयति / मह्यं तव *विपरीतभावं न गोपयतीत्यर्थः।। बहिरिवेत्यादि / बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् / कथमथ वच्चयसे जनमनुगतमसमशरज्वरदूनम् // 6 // हे कृष्ण / नूनमिति निश्चयेन / तवेदं मनोऽपि मलिनतरम् अतिशयेन मलिनं कज्जलाभमशुद्धं भविष्यति / किमिव / बहिरिव / त्वग्गतशरीरमिव / परबुद्धेरप्रत्यक्षत्वात् कथं जानासि त्वं तत्राह / अथ अन्यथा अनुगतम् अनन्यशरणं जनं कथं वञ्चयसे प्रतारयसि / किम्भूतं जनम् / असमशरज्वरदूनं असमाः पञ्च बाणा यस्य स तथा कामः, तस्मात् ज्वरस्तेन दूनं दुःखितम् / भ्रमतीत्यादि / भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् / प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् // 7 // अन्यच्च / भवान् वनेषु 'भ्रमतिःवजति / किमर्थम् / अबलाकवलाय अबला युवत्यः तासां कवलो प्रसनं तस्मै / 'तादयें चतुर्थी / स्त्रीभक्षणाय वनेषु भ्रमति अत्रास्मिन्नर्थे विचित्रमाश्चर्य किं तदाह / वधूवधनिर्दयबालचरित्रं वधूनाम् 10अबलानां वधो मारणम् वधू वधानिर्दयं दयारहितं बालचरित्रं चेति तत् / श्रीजयदेवेत्यादि / श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम् / शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् // 8 // हे विबुधाः विद्वांसः "यूयं शृणुत। 18कम् / श्रीजयदेवभणितरतिवञ्चित 1) B दन्तघातपदस्थानम् / 2:),P खेदं रचयति दुःखं जनयति / A खेदं दुःखं जनयतीति / 3) Bdrops तव to विकृतं। 4) B.अभेदभावं। 5) B'तव मनोऽपि इदं / 6) A drops प्रतारयसि / 7) B व्रजति भ्रमतिः। 8) B युवतयः। 9) B drops तादर्थ्य चतुर्थी / 10 ) B drops अबलानां / 11 ) B °वधे निर्दयं / 12) B drops यूयं / 13 ) B किम् /