________________ प्रलोकः 2] गीतगोविन्दकाव्यम् [77 तदाह / स्फुटं यथा स्यात्तथा तवेदं नयनं नेत्रम् अनुरागं प्रेमप्रमाणं वहति धारयति / किम्भूतं नयनम् / रजनिजनितगुरुजागररागकषायितम् / रजन्यां क्षपायां जनितः उत्पादितो गुरुर्गरिष्ठो जागरोऽत्यन्तनिद्राक्षयः तस्माद्रागो लौहित्यं तेन कषायः [? कषायः तं] इतो यातो यस्मिन् तत्तथा / पुनः किम्भूतम् / अलसनिमेषम् / अलसो मन्दीभूतो निमेषो यस्मिन् तत्तथा / पुनः किम्भूतम् / उदितरसाभिनिवेशम् उदितः कथितः सूचितः रसस्य शृङ्गारसुखस्य अभिनिवेश आसन्नोक्तिर्यस्मिन् तत्तथा / हरिहरिरिति विस्मये। सान्त्वनार्थे वा / कज्जलमलिनेत्यादि / कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम् / / दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् // 2 // किञ्च, हे कृष्ण तवारुणं बिम्बफलसदृशं दशनवसनं दन्तानामाच्छादनं अधरः तव शरीरस्य 'अनुरूपं सादृश्यं तनोति / किम्भूतं दशनवसनम् / कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम् / कज्जलेन मलिने ये विलोचने तयोश्चुम्बन तेन विरचितं नीलिमरूपं यस्मिन् तत्तथा / वपुरनुहरतीत्यादि। वपुरनुहरति तव स्मरसगरखरनखरक्षतरेखम् / मरकतशकलकलितकलधौतलिपेरिव रतिजयलेखम् // 3 // किञ्च, हे कृष्ण / तवेदं वपुः शरीरं रतिजयलेख रतेर्जयपत्रमनुहरति, तत्सदृशं दृश्यते / कुतः। स्मरसङ्गरखरनखरक्षतरेखम् / खराश्च ते तीक्ष्णा नखराः तैः क्षतानि व्रणानि / स्मरस्य सङ्गरे कामसमरे नखक्षतानि यस्मिन् तत्तथा तत् / कस्य च तुल्यम् / मरकतशकलकलितकलधौलिपेरिव मरकतस्य शकलं खण्डं तत्र कलिता लिखिता चासौ कलधौतस्य सुवर्णस्य लिपिः तस्याः लेखा तस्या इव / किम्भूतं वपुः। स्मरसङ्गरखरनखरक्षतरेखम् / चरणेत्यादि। चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् / दर्शयतीव बहिर्मदनद्रुमनवकिशलयपरिवारम् // 4 // 1°इदं तव हृदयमुदारं यथार्थ तत्रान्तःस्थितमदनगुमनवकिशलयपरिवार कन्दर्पतरुनवीनपल्लववृन्दं बहिर्दर्शयतीव / 11 उत्प्रेक्ष्यते। परिवार परिच्छदं च / किम्भूतम् / चरणकमलगलदलक्तकसितं13 तत्तथा। ____ 1) B वद / आह / 2) A, B कषायितो यस्मिन् तत्तथा / 3) B °निवेशं / 4 ) B निवेशो। 5) B स्मरसुखस्य / 6) A drops सांत्वार्थे वा; B शान्त्यर्थे वा। 7) B drops अनुरूपं / 8) A लिपिलेखा तस्याः इव / 9 ) A drops स्मर...रेखम् / 10) B adds किश्च / || ) A drops उत्प्रेक्ष्यते / 12) A adds चरणकमलाभ्यां गलंश्वासौ अलक्तकश्च तेन सिक्तं /