________________ अष्टमः सर्गः विलक्षलक्ष्मीपतिः। अथ कथमपीत्यादि / अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते / अनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् // 1 // उत्तरगीतं प्रलोकेनावतारयति / अथानन्तरेत्यादि / अथानन्तरं सा राधा स्मरशरजर्जरिता कामबाणव्यथितापि कथमपि अतिक्लेशेन यामिनी निशां विनीय नीत्वा [प्रभाते ] प्रातःकाले प्रातःसमये साभ्यसूयं अभ्यसूया सहितं यथा स्यात् तथा समागतं प्रियं प्रत्याह / किं कुर्वन्तम् / अग्रे वदन्तम् / कथं यथा स्यात् / तथा अनुनय विनयं यथा स्यात् / अनुनयाय परिसान्त्वनाय विनयो नम्रीभावो यस्मिन् कर्मणि तत्तथा / न केवलं वदन्तं प्रणतमपि नमस्कुर्वन्तमपि / 'भैरवरागे यतिताले / रजनिजनितेत्यादि / रजनिजनितगुरुजागररागकषायितमलसनिवेशम् / वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् // 1 // हरिहरि याहि माधव याहि केशव मा वद कैतववादम् / तामनुसर सरसीरुहलोचन या तव हरति विषादम् // ध्रुवपदम् // राधा माधवं निर्भर्त्सयति। हे माधव लक्ष्मीपते याहि गच्छ। 1°पुनरुक्तवचनं निरपेक्षात्र / हे केशव जलशायिन् याहि व्रज / ननु सत्यं ते / मयि कथ- . मुपेत्यागत्य कैतववादं धूर्तानां 11वचनं मा वद, मा ब्रूहि / हे सरसीरुहलोचन / चन्द्रवदनावलोकनाक्षम / या नायिका तव विषाद खेदादिकं हरति निवारयति तामनुसर 15तामनुगच्छ। ननु अधीरं तव धैर्य यतस्त्वं 14परप्रेमवशोऽसि / 1) The text, however, opens with अथ कथमपि; the commentary on this verse commences in all the three MSS with अथानन्तरं / 2) B drops अपि / 3) B drops अति / 4) PA निशां यामिनीं। 5)P drops तथा / 6) B वचनं यथा स्यात् तथा। 7) मेघरागण गीयते / B भैरवरागेण गीयते रूपकताले। 8) A इति ध्रुवपदम् / B ध्रुवपदमिदम् / 9) B याहि याहि। 10 , Pपुनरत्रवचन निरपेक्षात्राह / B पुनरुक्तवचनं निरपेक्षते / 11) B वचः। 12 ) B नालोकनाक्षाम / 13) B drops तामनुगच्छ / 14 ),B परम /