________________ 74] . सटिप्पणकम् [सर्गः७ प्राणहरो भविष्यसि। अनेन किमुक्तम् / स्वशरीरे अनादरपरा वैराग्यभावं दर्शयतीत्यर्थः / राधा स्वमनोगतमाह / रिपुरिवेत्यादि। रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिन् दुनोति मनोगते / हृदयमदये तस्मिन्नेव पुनर्वलते बलात् कुवलयदृशां वामः कामो निकामनिरङ्कुशः // 8 // यस्मिन् श्रीकृष्णे मनोगते सति मनसि स्मृते सति / अयं सखीसंवासः सखीजन सङ्ग; रिपुरिव शत्रुरिव, हृदयं दुनोति परितापयति / न केवलं सखीसंवासो दुनोति / हिमानिलोऽपि शीतलपवनोऽपि शिखीव अग्निरिव / इन केवलं हिमानिलः शिखीव / सुधारश्मिरमृतमयश्चन्द्रोऽपि विषमिव / तस्मिन्नेवादये निर्दये श्रीकृष्णे पुनर्बलात् कामो *वलते वर्धते / कासाम् / कुवलय शां कुवलयवद् दृशो नयनानि यासां तास्तथा तासाम् / कामिनीनां मते कामो वामः निकामनिरङ्कुशः निकाममतिशयेन निरङ्कुशः उत्कटः / अत एव वामः वक्रस्वभावः। दक्षिणो न भवतीत्यर्थः। बाधामित्यादि / बाधां विधेहि मलयानिल पञ्चवाण प्राणान् गृहाण न गृहं पुनराश्रयिष्ये / किं ते कृतान्तभगिनि क्षमया तरङ्ग रङ्गानि सिव्च मम शाम्यतु देहदाहः // 9 // ___ इति श्रीगीतगोविन्दे विप्रलब्धावर्णने नागरनारायणो नाम सप्तमः सर्गः / हे मलयानिल श्रीखण्डाचलसमीर त्वं बाधां पीडां विधेहि कुरु / हे पञ्चवाण कन्दर्प त्वं प्राणान् गृहाण / अहं पुनः पुनरपि गृहं नाश्रयिष्ये 'न गमिष्यामि / हे कृतान्तभगिनि यमस्वसः। हे त्वं निर्दये यमुने। तव क्षमया निश्चलभावेन किम् / भ्रातुः स्वरूपं धर्म मा कुरु / यतस्त्वं नारीणाम् अनङ्गजं दुःखं नानासीति / स्त्रीस्वभावत्वात् / यमुना यद्येवं पृच्छति 'मया तुभ्यं किं करणीयम् / प्रयोजनं वदोपालम्भनस्य / तत्राह / ममाङ्गानि गात्राणि तरङ्गः स्व 1) B स्मरति / 2 ) B °सङ्घः 3 ) B drops from न केवलं to विषमिव / 4) P drops वलते / 5) B दृशो। नयनानि यासां तथा तासां ताः / कामिनीमते कामो वामं / 6) B drops this line.17) B नागमिष्यामि / 8) A स्त्रीत्वात् ; B स्त्रीस्वभावात् / 9) A adds इति after करणीयम् /