________________ प्रलोकः 7] गीतगोविन्दकाव्यम् [73 सकलभुवनेत्यादि / सकलभुवनजनवरतरुणेन / वहति न सा रुजमतिकरुणेन // 7 // या रमिता 1सा रुजं न वहति / केन / अतिशयकरुणेन अतिशयेन करणं करुणायुष्यं तेन / अथवा अतिकरुणेन अधिकं करुणस्तेन / वनमालिना किम्भूतेन / सकलभुवनजनवरतरुणेन सकलानि च भुवनानि चेति समस्तानि विश्वानि च तेषु ये जनास्तेषां मध्ये वरः श्रेष्ठः स चासौ तरुणश्चेति तेन / निर्धारणे षष्ठी। समालो बहुवीहिः ( ? कर्मधारयः)। अनेन किमुक्तम् / या वरतरुणी स्वामिना सार्धमहनिशं सुरतसुखमनुभवति सा पतिरहितानां विरहिणीनां दुःखं कामपीडादिकं न जानातीत्यर्थः / प्रविशतीत्यादि (? प्रविशतु इत्यादि)। प्रविशतु हरिरपि हृदयमनेन / श्रीजयदेवभणितवंचनेन // 8 // अनेन गीतादिप्रबन्धमन्त्रेण वनमाली हरिः श्रीकृष्णः हृदयं प्रविशतु दृग्गोचरो भवतु / अनेन केन / श्रीजयदेवभणितवचनेन / सर्वगामित्वाल्लोकानां हृदयस्थितो भवत्वित्यर्थः / अत्रान्तरे मलयानिलेन पीडिता सती राधा तं पवनं प्रत्याह / मनोभवेत्यादि / मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् / क्षणं जगत्माण विधाय माधवं पुरो मम पाणहरो भविष्यसि // 7 // हे चन्दनानिल मलयजपवन / सम्बोधने / किम्भूत / मनोभवानन्दन मनसि भवतीति मनोभवः कन्दर्पः तम् आनन्दयतीति तथा सः तस्य सम्बोधनम् / हे मनोभवानन्दन 'वामतां वक्रभावं मुञ्च, जहीहि / न केवलं वामतां वक्रतां मुञ्च, पुरोऽने माधवं श्रीकृष्णं विधाय कृत्वा क्षणं प्रसीद, क्षणमात्रं प्रसन्नो भव, अनुकूलो भव / तत्रान्तर्गर्भितं हेतुमाह / हे दक्षिण शुभाचार उत्तम / जगत्प्राण जगतो विश्वस्य प्राणभूत / पश्चात् मम दुःखिताया संतप्तायाः 1) A न सा रुजं वहति / 2) A निर्धारणे षष्ठी समासः / B drops from निर्धारणे to बहुव्रीहिः। 3) A, B श्रीजयदेवभणितवचनेन / प्रविशतु हरिरपि हृदयमनेन // 4) P मिलनेन, but in the commentary it reads वचनेन। 5) A भवतीत्यन्वयः। 6) A निधाय / 7) B adds कामसखे। 8) A drops क्षणमात्रं प्रसन्नो भव; B drops क्षणणावं / 9) B drops अनुकूलो भव / 10