________________ 72] सटिप्पणकम् [सर्गः 7 वनमालिना। किम्भूतेन / अमृतमधुरमृदुतरवचनेन अमृतवद्मधुरं सरसंतमृदुतरं कोमलतरं च, अमृतमधुरं मृदुतरं वचनं यस्य स तथा तेन / प्रकृष्टार्थे तरतमौ प्रत्ययौ भवतः। स्थलजलेत्यादि / स्थलजलरुहरुचिकरचरणेन। लुंठति न सा हिमकरकरणेन // 4 // या रमिता सा न लुठति / केन / हिमकरकिरणेन हिमकरस्य चन्द्रस्य किरणाः अंशवः तेन / अथवा हिमवत् शीतलाः कराः किरणा यस्य स तथा तेन / वनमालिना किम्भूतेन / स्थलजलरुहरुचिकरचरणेन स्थले यज्जलरुहं करौ च चरणौ च करचरणौ स्थलजलरुहस्य रुचिः शोभा तद्वत्करचरणौ हस्तपादौ यस्य स तथा तेन / 'अथवा भूमिस्थितौ चरणौ स्थलपद्मवद्भासेते करचरणौ जलजवदित्यर्थः / सजलेत्यादि / सजलजलदसमुदयरुचिरेण / दलति न सा हृदि चिरविरहेण // 5 // या रमिता सा हृदि हृदये न दलति / न विदीर्यते / केन। चिरविरहेण / चिरं 1°बहुकालं विरहस्तेन / किम्भूतेन वनमालिना / सजलजलदसमुदयरुचिरेण / जलेन सह वर्तन्त इति सजला 11नवीनाश्च ते जलदाश्च तेषां समुदयः 1 समूहः तद्वद् रुचिरस्तेन / कनकेत्यादि / कननिचयरुचिशुचिवसनेन / श्वसिति न सा परिजनहँसनेन // 6 // या रमिता सा न श्वसिति न निःश्वासं तनोति / केन / परिजनहसितेन परिजनः 15सेवकसखीजनः तस्य हसितमुपहसितं तेन / वनमालिना किम्भूतेन / कनकनिचयरुचिशुचिवसनेन / कनकस्य सुवर्णस्य निचयो निकरः तस्य रुचिः तद्वत् शुचि निर्मलं शुद्धं वसनं वस्त्रं यस्य स तथा तेन / 1) B drops this line. 1 2 ) B दहति / 3) P या रमिता सा लुठति; A तथा या रमिता सा न लुठति / B या वनमालिना रमिता सा न लुठति / न दहति / 4 ) A किरणोंऽशुस्तेन / 5) B हिमाः शीतलाः / 6) A स्थल जलरुहं स्थलकमलं तस्येव रुचिर्येषां ते तादृशाः करचरणा यस्येति समास केचिदवैयाकरणा जगदुः। वयं तु करौ चतुर्भुजाभिप्रायेण कराश्च चरणौ च करचरणं "द्वन्द्वश्च प्राणितूर्यसेनाम् (पाणिनि 2 / 4 / 2 / ) इति प्राण्यङ्गत्वादेकवद्भावः / स्थलजलरुहस्येव रुचिर्यस्य तच्च तेन / 7) A drops from अथवा to °दित्यर्थः। 8) A दहति न सा हृदि विरहभरेण। 9 ) B दहति / 10) B चिरकालं। 11) B नवाश्च / 12) समुदायः। 13) A °निकर; B निकष / 14) B हसितेन / I5) A drops सेवक /