________________ श्लोकः 1] गीतगोविन्दकाव्यम् [71 किम्भूतः। बहुवल्लभः बहूनां नारीणां वल्लभः प्रियः। अथवा / बहवो वल्लभा यस्य स बहुवल्लभः। सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः / यथा दीर्घजच्चाः[?] / तत्र तस्मिन् विषये ते तव दूषणं किम् / ननु प्रस्तुते किं कर्तव्यमित्याह / यदीदानीमेव मदीयं चेतः प्रियसङ्गमाय स्वयं यास्यति / प्रियस्य सङ्गमः प्रियसङ्गमः तस्मै / इति त्वं अद्यैव पश्य अवलोकय / कथम् / स्फुटम् / सत्यम् / कस्मादिव / उत्कण्ठार्तिभरादिव / पूर्वानुभूतसुखस्मरणमुत्कण्ठा, तस्या आतिः पीडा, तस्या भरः दुःखातिशयहेतुः तस्मादिव / किम्भूतं चेतः। तस्य श्रीकृष्णस्य दयितस्य गुणगणैः आकृष्यमाणम् / पुनः किम्भूतम् / स्फुटदिव / विदीर्यदिव / अन्योऽपि गुणगणैः रज्जुसमूहै: आकृष्यमाणोऽपि परवशमायाति / अनिलतरलेत्यादि / देशाखरागे गौडीवामठताले / अनिलतरलकुवलयनयनेन / तपति न सा किसलयशयनेन // सखि या रमिता वनमालिना / ध्रुवपदम् // 1 // __ हे सखि वनमालिना माधवेन या नारी रमिता संभोगिता सा किसलयशयनेन नवपल्लवशय्यया करणभूतेन न तपति न मुह्यति / रमितेति सर्वपदे योजनीयम् / किम्भूतेन वनमालिना / अनिलतरलकुवलयनयनेन / अनिलेन वायुना 'तरलं यत्कुवलयं नीलोत्पलं तद्वन्नयने यस्य स तथा तेन / विकसितेत्यादि। विकसितसरसिजललितमुखेन / स्फुटति न सा मनसिजविशिखेन // 2 // या रमिता सा न स्फुटति न भिद्यते / मनसिजविशिखेन / मनसि अधिकरणे जायत इति मनसिजा मारः, अलुप्तसप्तमीसमासः, तस्य विशिखो बाणस्तेन वनमालिना, किम्भूतेन / विकसितसरसिजललितमुखेन विकसितं च तत्सरसिजं चेति तद्वल्ललितं सुन्दरं मुखं यस्य स तथा तेन / अमृतेत्यादि / अमृतमधुरमृदुतरवचनेन / ज्वलति न सा मलयजपवनेन // 3 // या रमिता सा न ज्वलति परितापं न प्राप्नोति / केन / मलयजपवनेन मलयजस्य चन्दनस्य पवनस्तेन / अथवा मलयजस्य चन्दनस्य रचनं लेपनं तेन / 1) B सर्वनाम्नो वृत्तिमात्रे पुर्वद्भावः (1) / 2 ) A ( ? दीर्घजङ्घः / 3) p मालवगौडारागे; B दोषाखरागेण गीयते / एकतालीताले / अत्राप्युत्कण्ठितैत्र नायिका / 4) B तरलं चञ्चलम् / 5) B मनसिजस्य कामस्य विशिखो बाणस्तेन / 6) A, B drop अथवा to लेपनं तेन /