________________ 62 सटीके निघण्टुशेषे [ श्लो० ११०देवदारुनामानि / मधूके मधुशाकः स्यान्माधवो मधुको मधुः // 110 // मध्वष्ठीलो मधुष्ठीलो मधुकाष्ठो मधुस्रवः। रोध कोष-मधु गुडात् पुष्पो गोलफलोऽपि च // 111 // 5 मदयति मधूकः, " शम्बूक-शाभ्बूक-" [ हैमोणादिसू० 61 ] इत्यूके निपात्यते, तत्र / मधुप्रधानः शाकः मधुशाकः / मा-माधुर्यश्रीः तस्या धवो माधवः मधुरेव वा, प्रज्ञा दित्वादण् / मदयति मधुकः, " कञ्चुकांशुक-" [हैमोणादिसू० 57] इत्युके निपात्यते; मधुप्रतिकृतिमधुक इति वा, " तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः" [ सिद्ध० 7. 1. 108] इति कः; मधुरेव वा स्वार्थिकः कः / मन्यते मधुः, 10 " मनि-जनिभ्यां ध-तौ च” [ हैमोगादिसू० 721 ] इत्युः, पुंल्लिङ्गः // 110 // मधु-माधुर्यमष्ठीले–गर्भे अस्य मध्वष्ठीलः / पृषोदरादित्वादकारलोपे मधुष्ठीलः, “ष्ठिवू क्षिवू निरसने” “ष्ठिवू-क्लमु-" [ सिद्ध० 4. 2. 110] इति दीर्धे; मधु ष्ठीवति इति वा, " भिल्ला-ऽच्छभल्ल-" [ हैमोणादिसू० 464 ] इति ले निपात्यते / मधुप्रधानः काष्ठो मधुकाष्ठः / मधु स्रवति मधुस्रवः / - रोध-कोष15 मधु-गुडात् पुष्पः' इति रोध्र-कोष-मधु-गुडाद् इत्यत्र समाहारद्वन्द्वः, रोधादिभ्यः पुष्पम् इति पुरो योज्यते, तेन रोध्रपुष्पः, कोषे पुष्पाण्यस्य कोषपुष्पः, मधुपुष्पः, गुडवन्मधुरं पुष्पमस्य गुडपुष्पः / गोलानि-वतुलानि फलान्यस्य गोलफलः / यदाह मधूको मधुवृक्षश्च मधुष्ठीलो मधुस्रवः / गुडपुष्पो रोध्रपुष्पो वनप्रस्थोऽथ माधवः // ] इति / मधूकनामानि / लोके तु 'महूडउ' इति प्रसिद्धिः // 111 // जलजेऽस्मिन् मधूलः स्याद वारिजो दीर्घपत्रकः। नीरवृक्षो गैरिकाख्यो हस्वपुष्प-फलोऽपि च // 112 // अस्मिन् जलजे मधूके मधु लाति मधूलः, पृषोदरादित्वात् साधुः / वारितो जातो 23 वारिजः। दीर्घाणि पत्राण्यस्य दीर्घपत्रः, के दीर्घपत्रकः / नीरस्य वृक्षो नीरवृक्षः। गैरिक इत्याख्या अस्य गैरिकारख्यः / 'हस्वपुष्प-फलः' इति इस्वशब्दात् पुष्प-फले 1 °द् गिरिजो दीर्घपत्रकः / तीरवृक्षो गौरशालो ह्रस्व नि० // 20