________________ 110] प्रथमो वृक्षकाण्डः। [61 देवदारुणि देवावं पवनारिः पलाशिकः // 108 // पारिभद्रो द्रुकिलिमं किलिमं देववल्लभः / दारु च स्नेहविद्धं च देवेन्द्र-स्वर्गतो द्रुमः // 109 / / पीत-पूति-महा-देव-भद्रेन्द्रात् काष्ठ-दारुणी / देवानां दारु देवदारु, तत्र / देवानामाह्वा-नामाऽस्य देवाहम् / पवनस्य , अरिः पवनारिः / पलाशानि-पत्राणि सन्त्यस्य पलाशिकः, “अतोऽनेकस्वरात्" [ सिद्ध 0 7. 2. 6 ] इतीकः // 108 // ___पारि-निष्ठां प्राप्त भद्रमस्य पारिभद्रः / द्रौ-स्कन्धे किलिमं–निर्यासोऽस्य द्रुकिलिमम् / किलिममस्त्यस्य किलिमम् , अभ्रादित्वादः; पदैकदेशत्वाद्वा भीमवत् ; " किलत् श्वैत्य-क्रीडनयोः " किलत्यनेन वा " वयिम-खचिमादयः" [ हैमो- 10 णादिसू० 350.] इतीमे साधुः / उभावपि क्लीबलिङ्गौ / देवानां वल्लभो देववल्लभः / देवदार्वेकदेशे दारु, यथा भीमो भीमसेनः / स्नेहेन विद्धं स्नेहविद्धम् / ' देवेन्द्र-स्वर्गतो द्रुमः ' इति देव-इन्द्र-स्वर्गेभ्यः प्रत्येकं द्रुमशब्दः सम्बध्यते, तेन देवद्रुमः इद्रन्द्रुमः स्वर्गद्रुमश्च // 109 // 'पीत-पूति-महा-देव-भद्रेन्द्रात् काष्ठ-दारुणी' इति पीतादिभ्यः प्रत्येकं 'काष्ठ- 1. दारुणी' इति शब्दौ सम्बध्येते, तेन पीतकाष्ठं, पीतदारु, पूति-उग्रगन्धं काष्ठमस्य पूतिकाष्ठम् , एवं पूतिदारु , महाकाष्ठं महादारु, देवकाष्ठं देवदारु, भद्रकाष्ठं भद्रदारु, इन्द्रकाष्ठं इन्द्रदारु / सर्वेऽप्येते पुं-क्लीबलिङ्गाः / यदाह देवदारु स्मृतं दारु सुराह्न किलिमं च तत् / स्नेहविद्धं महादारु भद्रदाविन्द्रदारु च // देवकाष्ठं भद्रकाष्ठं पूतिकाष्ठं च दारु च / सुरदाविन्द्रवृक्षश्च तथैवामरदारु च // ] इति / अमरोऽपि शक्रपादपः पारिभद्रकः / भद्रदारु द्रुकिलिमं पूतिदारु च दारु च // [ का० 2 वर्ग 4 श्लो० 53 } इति /