________________ [63 114] प्रथमो वृक्षकाण्डः। इति योज्यते, तेन हूस्वाणि पुष्पाणि फलानि चास्य हूस्वपुष्पः इस्वफलः / आह च-- मधूकोऽन्यो मधूलस्तु जलजो दीर्घपत्रकः / हूस्वपुष्प-फलः स्वादुगैरिकाख्यो मधूलकः // [ ] इति / एतस्य लोके ‘महाडोलु' इति प्रसिद्धिः // 112 // तिन्दुके स्फूर्जनस्तुष्टः कालस्कन्धो विरूपकः / निःस्यन्दनः कालसारो रोवणो नीलसारकः // 113 // तिम्यति- आर्दीभवति तिन्दुकः, “कञ्चुकांशुक-'' हैमोणादिसू० 57] इत्युके निपात्यते, तत्र / "ट्वोस्फूर्जा वज्रनिर्घोषे” स्फूर्जति स्फूर्जनः, नन्द्यादित्वादनः / तुष्यति स्म तुष्टः / कालः स्कन्धोऽस्य कालस्कन्धः / विरूपयति विरूपकः / निःस्यन्दते 10 निःस्यन्दनः। कालः सारः-मज्जाऽस्य कालसारः / रावयति रावणः / नीलः सारः-मज्जाऽस्य नीलसारः, के नीलसारकः / [ आह च--] तिन्दुको नीलसारश्च कालस्कन्धः शिशूत्सकः / स्फूर्जकः स्फूर्जनस्तुष्टः स्यन्दनो रावणो रवः // ] इति / 15 तिन्दुकनामानि / लोके 'टीडू' इति प्रसिद्धिः // 113 // द्वितीये तिन्दुके कॉकतिन्दुर्मर्कटतिन्दुकः / काकेन्दुकः काकपीलुः कुपील कुलकावपि // 114 // 'द्वितीये' भिन्ने तिन्दुके काकवर्गस्तिन्दुः काकतिन्दुः / मर्कटवर्गस्तिन्दुकः मर्कटतिन्दुकः / काकवर्गस्तिन्दुः काकेन्दुः, पृषोदरादित्वात् साधुः, के 20 काकेन्दुकः / एवं काकपीलः। कुत्सितः पीलुः कुपीलः / “लक आस्वादने" कुत्सितैर्लक्यते कुलकः, कोलति वा, "धू-धून्दि-'' [ हैमोणादिसू० 29 ] इति किदकः / आह च-- तिन्दुकोऽन्यो द्वितीयस्तु स्फूर्जकः काकतिन्दुकः / काकेन्दुकश्च विख्यातः कुपीलुः काकपीलकः // 25 ] इति / 1 स्फूर्जकस्तु° नि० // 2 द्रावणो नि० // 3 कालस्तिन्दु नि० // ..